ज्येष्ठे प्रातश्च मध्याह्ने मध्यमे स्नाति यो नरः
तावत्तिष्ठति देहेषु पातकं सर्वदेहिनाम्
दिवाकरकरैः स्पृष्टं तमो यद्वत्प्रणश्यति
ब्रह्महत्यादिकं पापं कृत्वापि पुरुषो भुवि ६.४५.
किं दानैः किं व्रतैर्होमैः किं यज्ञैर्वहुविस्तरैः
यद्येषा भारती सत्या मया सम्यमुदीरिता
एवं तस्य ब्रुवाणस्य विश्वामित्रस्य धीमतः
विश्वामित्र मुनिश्रेष्ठ सदा मे गगने स्थितिः
तदत्र दिवसे वासो मम भूमितले ध्रुवम्
तत्कथं वेद्मि तीर्थेश त्वामत्रैव व्यवस्थितम्
तदोत्थिता पुनर्वाणी तारा गगनगोचरा
नातिदूरे वनादस्मादत्र संति जलाशयाः
ऊर्ध्ववक्त्रं द्वितीये च तिर्यग्वक्त्रं तृतीयके
पार्श्ववक्त्रैर्द्विजश्रेष्ठ मध्यमं परिकीर्तितम् ६.४५.
एतैश्चिह्नैर्मुनिश्रेष्ठ ज्ञात्वा स्नानं समाचर
तादृशैः कमलैस्तत्र संस्थितास्ते जलाशयाः
ततश्च विधिना सम्यक्चकारपितृतर्पणम्
ततः शाकैश्च मूलैश्च नीवारैः फलसंयुतैः
तत्र तस्यैव तीरस्थो वीक्षांचक्रे समाहितः
संप्राप्ते कृत्तिकायोगे सर्वं तत्र वदाशु नः
तदा निष्क्रामति श्रेष्ठं कमलं जलमध्यतः
तन्मध्येंऽगुष्ठमात्रस्तु पुरुषो दृश्यते जनैः
एतस्मात्कारणात्स्नात्वा विश्वामित्रो महामुनिः
तस्यैवं वीक्षमाणस्य विश्वामित्रस्य धीमतः ६.४५.
अत्यंतं मृगयाश्रांतो हत्वा मृगगणान्बहून्
सिंहान्व्याघ्रान्वृकांश्चैव हिंसानारण्यचारिणः
अथापश्यद्द्रुमोपांते विश्वामित्रं मुनीश्वरम्
ततस्तं प्रणिपत्योच्चैरवतीर्य तुरंगमात्
एतस्मिन्नंतरे तोयात्कमलं तद्विनिर्गतम्
तद्दृष्ट्वा स महीपालः पद्ममत्यद्भुतं महत्