सर्वतीर्थमयं क्षेत्रं तद्विज्ञाय तपोनिधिः
अद्येयं कार्तिकी पुण्या कृत्तिकायोगसंयुता आद्यं तु पुष्करं दूरे न गन्तुं शक्यतेऽधुना
तस्मादत्र स्थितं यच्च तस्मिन्स्नानं करोम्यहम्
ततश्चान्वेषयामास पुष्कराणि समंततः
दृष्ट्वादृष्ट्वा जलस्थानं स्नानं चक्रे ततः परम् ६.४५.
वृक्षमूलं समाश्रित्य निविष्टश्च क्षितौ ततः मध्यमाद्योजनं स्वर्गः कनिष्ठादर्ध योजनम्
पावयंति हि तीर्थानि स्नानदानादसंशयम्
पुष्करारण्यमाश्रित्य शाकमूलफलैरपि
पुष्करे दुष्करं स्नानं पुष्करे दुष्करं तपः
कार्तिक्यां कृत्तिकायोगे पुष्करे स्नाति यो नरः
ज्येष्ठे प्रातश्च मध्याह्ने मध्यमे स्नाति यो नरः
तावत्तिष्ठति देहेषु पातकं सर्वदेहिनाम्
दिवाकरकरैः स्पृष्टं तमो यद्वत्प्रणश्यति
ब्रह्महत्यादिकं पापं कृत्वापि पुरुषो भुवि ६.४५.
किं दानैः किं व्रतैर्होमैः किं यज्ञैर्वहुविस्तरैः
यद्येषा भारती सत्या मया सम्यमुदीरिता
एवं तस्य ब्रुवाणस्य विश्वामित्रस्य धीमतः
विश्वामित्र मुनिश्रेष्ठ सदा मे गगने स्थितिः
तदत्र दिवसे वासो मम भूमितले ध्रुवम्
तत्कथं वेद्मि तीर्थेश त्वामत्रैव व्यवस्थितम्
तदोत्थिता पुनर्वाणी तारा गगनगोचरा
नातिदूरे वनादस्मादत्र संति जलाशयाः
ऊर्ध्ववक्त्रं द्वितीये च तिर्यग्वक्त्रं तृतीयके
पार्श्ववक्त्रैर्द्विजश्रेष्ठ मध्यमं परिकीर्तितम् ६.४५.
एतैश्चिह्नैर्मुनिश्रेष्ठ ज्ञात्वा स्नानं समाचर
तादृशैः कमलैस्तत्र संस्थितास्ते जलाशयाः
ततश्च विधिना सम्यक्चकारपितृतर्पणम्
ततः शाकैश्च मूलैश्च नीवारैः फलसंयुतैः
तत्र तस्यैव तीरस्थो वीक्षांचक्रे समाहितः
संप्राप्ते कृत्तिकायोगे सर्वं तत्र वदाशु नः