संसारभ्रमणं नारी प्रथमेपि समागमे
तस्मात्स्त्रीभिः समं प्राज्ञः संभाषामपि वर्जयेत्
अंगार सदृशा नारी घृतकुंभसमः पुमान्
स्त्रियो मूलमनर्थानां सर्वेषां प्राणिनां भुवि
कुलीना वित्तवत्यश्च नाथवत्योऽपि योषितः ६.४४.
न स्त्रीभ्यः किंचिदन्यद्धि पापाय विद्यते भुवि नीचोऽपि कुरुते सेवां यस्तासां विजनेष्वथ
अनर्थत्वान्मनुष्याणां भयात्परिजनस्य च
शशाप तं मुनिश्रेष्ठं स्फुरमाणोष्ठसंपुटा
यस्मात्त्वया परित्यक्ता सकामाहं सुदुर्मते
अद्यैव भव दुबुर्द्धे वलीपलितसंयुतः
बभूव तादृशः सद्यस्तया यादृक्प्रकीर्तितः
ततः कोपपरीतात्मा सोऽपि तां शप्तुमुद्यतः
निर्दोषोऽपि त्वया यस्माच्छप्तोऽहं गणिकाधमे
सापि तद्वचनात्सद्यस्तादृग्रूपा व्यजायत ६.४४.
अथ तादृक्स्वरूपेण स्नाता तत्र जला शये
तद्दृष्ट्वा परमाश्चर्यमतीव त्वरयान्वितः
ततस्तौ तीर्थमाहात्म्याद्रूपौदार्यगुणान्वितौ
एवं तीर्थस्य माहात्म्यं विज्ञाय भगवानृषिः
तपश्चकार सुमहत्तस्मिंस्तीर्थवरे तदा
तत्र स्नात्वा नरो यस्तु पूजयेल्लिंगमुत्तमम्
अद्यापि दृश्यते तत्र गंगोदकसमं जलम्
यस्तत्र कुरुते स्नानं श्रद्धापूतेन चेतसा
ततःप्रभृति तत्तीर्थं ख्यातिं प्राप्तं महीतले
एतद्वः सर्वमाख्यातं यत्पृष्टोऽस्मि द्विजोत्तमाः ६.४४.
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे श्रीहाटकेवरक्षेत्रमाहात्म्ये विश्वामित्रकुण्डोत्पत्ति विश्वामित्रेश्वरमाहात्म्यवर्णनंनाम चतुश्चत्वारिंशत्तमोऽध्यायः
यत्र पूर्वं तपस्तप्तमानर्ताधिपभूभुजा
यस्तत्र कार्तिके मासि कृत्तिकास्थे निशाकरे
कस्मिन्स्थाने च विज्ञेयं कैश्चिह्नैर्वद सूतज
प्राग्दृष्टं मुनिना तत्र विश्वामित्रेण धीमता
पुरा निवसतस्तस्य विश्वामित्रस्य सन्मुनेः