मां च पाशुपतं लुब्धा कस्मात्त्वं भीरु भाषसे
यः स्त्रीं भजति पापात्मा वृथा पाशुपतव्रती
आस्तां तावत्समा संगं संस्पर्शं च वरानने ६.४३.
तस्माद् द्रुततरं गच्छ स्थानादस्माद्वरांगने
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये विश्वामित्रकुण्डोत्पत्तिवृत्तान्ते विश्वामित्रमेनकासंवादवर्णनंनाम त्रिचत्वारिंशोऽध्यायः
तेन मामीदृशैर्वाक्यैर्निवारयसि रागिणीम्
कोपेन महता युक्तो निःस्पृहस्तत्परिग्रहे
व्रतनाशात्तु यत्पापमधिकं स्त्रीवधाद्भवेत्
प्रायश्चित्तं बुधैरुक्तं व्रतिनां स्त्रीवधे कृते
न केवलं व्रतोपेताः स्त्रीसंगात्पापमाप्नुयुः
संसारभ्रमणं नारी प्रथमेपि समागमे
तस्मात्स्त्रीभिः समं प्राज्ञः संभाषामपि वर्जयेत्
अंगार सदृशा नारी घृतकुंभसमः पुमान्
स्त्रियो मूलमनर्थानां सर्वेषां प्राणिनां भुवि
कुलीना वित्तवत्यश्च नाथवत्योऽपि योषितः ६.४४.
न स्त्रीभ्यः किंचिदन्यद्धि पापाय विद्यते भुवि नीचोऽपि कुरुते सेवां यस्तासां विजनेष्वथ
अनर्थत्वान्मनुष्याणां भयात्परिजनस्य च
शशाप तं मुनिश्रेष्ठं स्फुरमाणोष्ठसंपुटा
यस्मात्त्वया परित्यक्ता सकामाहं सुदुर्मते
अद्यैव भव दुबुर्द्धे वलीपलितसंयुतः
बभूव तादृशः सद्यस्तया यादृक्प्रकीर्तितः
ततः कोपपरीतात्मा सोऽपि तां शप्तुमुद्यतः
निर्दोषोऽपि त्वया यस्माच्छप्तोऽहं गणिकाधमे
सापि तद्वचनात्सद्यस्तादृग्रूपा व्यजायत ६.४४.
अथ तादृक्स्वरूपेण स्नाता तत्र जला शये
तद्दृष्ट्वा परमाश्चर्यमतीव त्वरयान्वितः
ततस्तौ तीर्थमाहात्म्याद्रूपौदार्यगुणान्वितौ
एवं तीर्थस्य माहात्म्यं विज्ञाय भगवानृषिः
तपश्चकार सुमहत्तस्मिंस्तीर्थवरे तदा
तत्र स्नात्वा नरो यस्तु पूजयेल्लिंगमुत्तमम्