जीवग्राहेण दुष्टेयं गृह्यतां परुषस्वना 7.3.24.
अथ तस्य समादेशाद्दानवास्तां ततो द्रुतम्
ततोऽवलोकनाद्दैत्यास्तया ते भस्मसात्कृताः
अब्रवीत्तिष्ठतिष्ठेति खङ्गमुद्यम्य भीषणः
अभवद्भस्मसात्सद्यः पतंग इव पावकम् भित्त्वा रसातलं जग्मुः पातालं भयसंयुताः
ततो देवगणाः सर्वे तुष्टुवुस्तां सुरेश्वरीम्
देव्युवाच तत्रैव पर्वते स्थास्ये ह्यर्बुदेऽहं सुरोत्तमाः
विना यज्ञैस्तथा दानैः स्वर्गः संकीर्णतां गतः
वयं त्वां तत्र द्रक्ष्यामः शुक्लाष्टम्यां सदा शुचेः
सापि देवी गिरौ तत्र गत्वा चैवार्बुदे नृप ॥ 7.3.24.
गुहामध्यं समासाद्य नित्यं जगद्धिताय वै
यस्तां पश्यति राजेन्द्र शुक्लाष्टम्यां समाहितः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे कात्यायनीमाहात्म्यवर्णनंनाम चतुर्विंशोऽध्यायः
यत्र पूर्वं तपस्तप्तं मंकिना ब्राह्मणेन च
पुरा मंकिरभूद्विप्रो नाममात्रेण भूपते
अथासौ पर्वते रम्ये लोकानां नृपसत्तम
कस्यचित्त्वथ कालस्य तेन वित्तमुपार्जितम्
ततस्तद्दमयामास गोयुगं नृपसत्तम
निबद्धमुष्ट्रमासाद्य ग्रीवादेशे बलात्स्थितम्
गोयुगेन हि ग्रीवायां लम्बमानेन भूपते
मंकिर्वैराग्यमापन्नस्त्यक्त्वा ग्रामं वनं ययौ
त्रिकालं कुरुते स्नानं गायत्रीजपमुत्तमम्
एतस्मिन्नेव काले तु तेन मार्गेण शंकरः 7.3.25.
स दृष्टः सहसा तेन पिंडारेण महात्मना
न वृथा दर्शनं मे स्याद्वरो मे गृह्यतां द्विज
यथा तथा कुरु विभो नान्यन्मे हृदि वर्तते
एतत्पिण्डारकं तीर्थ मम नाम्ना प्रसिध्यतु
एतत्पिंडारकंनाम तीर्थमत्र भविष्यति
अहमत्र महाष्टम्यां निवेक्ष्यामि महामते ते यास्यंति परं स्थानं यत्राहं नित्यसंस्थितः
मंकिः पिंडारकस्तत्र तपस्तेपे दिवानिशम्