स दृष्ट्वाऽदृष्टपूर्वां तां मार्गपृच्छाकृते ततः
उवाच देशं तां पृच्छन्स्त्रीधर्मांश्च विशेषतः
सदैव वासुदेवस्य भक्तिश्चाव्यभिचारिणी चारित्रविनयोपेता सर्वदा प्रियवादिनी ॥ ६.४२.
कच्चित्त्वं सर्वदाभीष्टा पत्युर्दानैस्तथार्च्चनैः
कच्चिद्भर्तरि संसुप्ते त्वं निशवशमेष्यसि
कच्चित्प्रातः समुत्थाय करोषि गृहमार्जनम्
कच्चिदेवान्नमस्कृत्य गुरुं च तदनंतरम्
कच्चिदस्तंगते सूर्ये नान्नमश्नासि भाभिनि
कच्चित्पिबसि पानीयं सप्तवारविशोधितम् [। निबिडेन स्ववस्त्रेण पालयंती जलोद्भवान्॥ २६. यूकामत्कुणदंशादीन्पुत्रवत्परिरक्षसि
कच्चित्साधुमुखान्नित्यं शिवधर्मं सुभक्तितः
क्वचिच्छ्रुत्वाऽऽगमं पुण्यं प्रकरोषि च पूजनम्
कच्चित्पुराणशास्त्राणि प्रणीतानि जनेश्वरैः ६.४२.
यः श्रुत्वा सर्व शास्त्राणि निष्क्रयं न प्रयच्छति
कच्चिच्छिवालये नृत्यगीतवाद्यादिकाः क्रियाः
कच्चित्प्रावरणं वस्त्रं सुभगे सर्वमेव च
वृथा पर्यटनं नित्यं कच्चिन्न परमंदिरे
कच्चिन्नाश्नासि भद्रे त्वं स्वभर्तरि बुभुक्षिते
कच्चित्प्रकुपिते कांते नोत्तराणि प्रयच्छसि
कच्चित्त्वं प्रोषिते कांते मलिनांबरधारिणी
कच्चिन्मंदिरपृष्ठे त्वं न धत्से भिन्नभाजनम्
कच्चिन्न कुरुषे मैत्रीं बंधकीभिः समं शुभे ६.४२.
कञ्चिद्दधासि नित्यं त्वं मुखं कुंकुमरंजितम्
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये विश्वामित्रकुण्डोत्पत्तिवृत्तान्ते विश्वामित्रमेनकासमागमवर्णनंनाम द्विचत्वारिंशो ध्यायः
स्वेच्छाचारविहारिण्यो वयं वेश्या दिवौकसाम्
स त्वं वद महाभाग कस्माद्देशात्समागतः
त्वां दृष्ट्वाहं महाभाग कामदेव समाकृतिम्
तस्माद्भजस्व मां रक्तां नो चेद्यास्यामि संक्षयम् ततः स्त्रीवधपापेन लिप्यसे त्वं न संशयः
मूर्खाः कामविधौ भद्रे निरताः शिवशासने
सर्वेषां व्रतिनां मूलं ब्रह्मचर्यमुदाहृतम्
अपि वर्षशतं साग्रं यत्तपः कुरुते व्रती