यत्किंचिद्दीयत दानं तस्मिंस्तीर्थवरे द्विजाः
कस्यचित्त्वथ कालस्य मृगी व्याधशराहता
चैत्रशुक्लतृतीयायां मध्याह्ने द्विजसत्तमाः ६.४२.
अथ तत्तोयमाहात्म्यान्मेनकानाम साऽभवत्
स्मरमाणाऽथ सा तस्य प्रभावं वरवर्णिनी चैत्रशुक्लतृतीयायां यामर्क्षे सूर्यवासरे
एकदा दिवसे तस्मिन्भ्रममाणो मुनीश्वरः
साऽपि स्वर्गात्समायाता देवतादर्शनार्थतः
सा दृष्ट्वा तं मुनिं तत्र भ्रममाणमितस्ततः
व्रतप्रभावजैर्व्याप्तं तेजोभिर्भास्करं यथा
सा तस्य दर्शनादेव कामबाणप्रपीडिता
स दृष्ट्वाऽदृष्टपूर्वां तां मार्गपृच्छाकृते ततः
उवाच देशं तां पृच्छन्स्त्रीधर्मांश्च विशेषतः
सदैव वासुदेवस्य भक्तिश्चाव्यभिचारिणी चारित्रविनयोपेता सर्वदा प्रियवादिनी ॥ ६.४२.
कच्चित्त्वं सर्वदाभीष्टा पत्युर्दानैस्तथार्च्चनैः
कच्चिद्भर्तरि संसुप्ते त्वं निशवशमेष्यसि
कच्चित्प्रातः समुत्थाय करोषि गृहमार्जनम्
कच्चिदेवान्नमस्कृत्य गुरुं च तदनंतरम्
कच्चिदस्तंगते सूर्ये नान्नमश्नासि भाभिनि
कच्चित्पिबसि पानीयं सप्तवारविशोधितम् [। निबिडेन स्ववस्त्रेण पालयंती जलोद्भवान्॥ २६. यूकामत्कुणदंशादीन्पुत्रवत्परिरक्षसि
कच्चित्साधुमुखान्नित्यं शिवधर्मं सुभक्तितः
क्वचिच्छ्रुत्वाऽऽगमं पुण्यं प्रकरोषि च पूजनम्
कच्चित्पुराणशास्त्राणि प्रणीतानि जनेश्वरैः ६.४२.
यः श्रुत्वा सर्व शास्त्राणि निष्क्रयं न प्रयच्छति
कच्चिच्छिवालये नृत्यगीतवाद्यादिकाः क्रियाः
कच्चित्प्रावरणं वस्त्रं सुभगे सर्वमेव च
वृथा पर्यटनं नित्यं कच्चिन्न परमंदिरे
कच्चिन्नाश्नासि भद्रे त्वं स्वभर्तरि बुभुक्षिते
कच्चित्प्रकुपिते कांते नोत्तराणि प्रयच्छसि
कच्चित्त्वं प्रोषिते कांते मलिनांबरधारिणी
कच्चिन्मंदिरपृष्ठे त्वं न धत्से भिन्नभाजनम्