तस्मात्कीर्तय यत्कृत्यं तच्च श्रेयस्करं मम
सर्वलोकहितार्थाय ह्रदे पुण्य जलाश्रये
त्वया तस्मात्समागम्य चातुर्मास्यं शचीपते
न भवंति सहस्राक्ष येन ते परि पंथिनः
अन्योऽपि यो नरो भक्त्या पूजयिष्यति मामिह
तस्माद्गच्छ सहस्राक्ष कुरु राज्यं त्रिविष्टपे कार्यकाले समायाते श्वेतद्वीपे यथा तथा
वासुदेवोऽपि तत्रैव स्थितो लोकहिताय च
एवं तत्र द्विजश्रेष्ठा जलशायी जनार्दनः ६.४१.
यस्तं पूजयते भक्त्या श्रद्धया परया युतः
तथा देवगणैः सर्वैर्द्वारका तत्र सा कृता
शेषकालेऽपि चित्तस्थान्कामान्मर्त्यः समाप्नुयात् सर्वेष्वपि हि कालेषु चातुमास्ये विशेषतः
एतद्वः सर्वमाख्यातं सर्वपातकनाशनम्
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये जलशाय्युत्पत्तिवर्णनंनामैकचत्वारिंशत्तमोऽध्यायः
संतिष्ठते द्विजश्रेष्ठाः सर्वकामप्रदायकम्
तत्र चैत्रतृतीयायां कृते स्नाने भवेन्नरः
नारी वा श्रद्धयोपेता तत्र स्नात्वा प्रजावती
ऋषय ऊचुः तीर्थं तस्य मुनेस्तत्र कस्मिन्काले व्यवस्थितम्
अवधूतो धरापृष्ठे माहात्म्येन व्यवस्थितः
यत्र देवनदी गंगा स्वयमेव व्यवस्थिता
यस्तत्र कुरुते श्राद्धं पितॄनुद्दिश्य भावितः
यत्किंचिद्दीयत दानं तस्मिंस्तीर्थवरे द्विजाः
कस्यचित्त्वथ कालस्य मृगी व्याधशराहता
चैत्रशुक्लतृतीयायां मध्याह्ने द्विजसत्तमाः ६.४२.
अथ तत्तोयमाहात्म्यान्मेनकानाम साऽभवत्
स्मरमाणाऽथ सा तस्य प्रभावं वरवर्णिनी चैत्रशुक्लतृतीयायां यामर्क्षे सूर्यवासरे
एकदा दिवसे तस्मिन्भ्रममाणो मुनीश्वरः
साऽपि स्वर्गात्समायाता देवतादर्शनार्थतः
सा दृष्ट्वा तं मुनिं तत्र भ्रममाणमितस्ततः
व्रतप्रभावजैर्व्याप्तं तेजोभिर्भास्करं यथा
सा तस्य दर्शनादेव कामबाणप्रपीडिता