तस्य दैत्यस्य नाशार्थं तद स्माकं प्रकीर्तय
चिरं मनसि निश्चित्य क्षेत्राण्यायतनानि च
चमत्कारपुरं क्षेत्रं शक्र सिद्धिप्रदायकम्
बाष्कलेर्दानवेन्द्रस्य भयाद्भीताः कथंचन
तस्मादागच्छ तत्र त्वं स्वयमेव सुरेश्वर
अथ देवगणाः सर्वे तत्र गत्वा तदाऽऽश्रमान्
वासुदेवोऽपि संस्मृत्य क्षीरोदं तत्र सागरम्
चकार शयनं तत्र श्वेतद्वीपे यथा पुरा
अथाषाढस्य संप्राप्ते द्वितीयादिवसे शुभे प्रोवाच वचनं श्लक्ष्णं बाष्पव्याकुल लोचनम् ॥ ६.४१.
अतीव दयिता विष्णोः प्रसुप्तस्य जलाशये
अस्यां संपूजितो विष्णुर्यावन्मासचतुष्टयम् शास्त्रोक्तविधिना सम्यग्व्रतस्थो जलशायिनम्
एवं स चतुरो मासान्द्वितीयादिवसे हरिम्
तं दृष्ट्वा तेजसा युक्तं परितुष्टो जनार्दनः सर्वैर्देवगणैः सार्धं विजयस्ते भविष्यति
त्वया विना न गच्छामि सार्धं सर्वैः सुरैरपि
गमिष्यति वधार्थाय मदीयं सुरविद्विषाम्
एवमुक्त्वा हरिश्चक्रं प्रमुमोच सुदर्शनम्
शक्रोऽपि सहितस्तेन गत्वा चक्रेण कृत्स्नशः
स चापि बाष्कलिस्तेन च्छिन्नश्चक्रेण कृत्स्नशः
तथान्ये बहवः शूरा दानवा बलदर्पिताः ६.४१.
तेऽपि शक्रादयो देवाः प्रहृष्टा गतसंशयाः ४१ प्रभावात्तव देवेश हताः सर्वेऽमरारयः
तस्मात्कीर्तय यत्कृत्यं तच्च श्रेयस्करं मम
सर्वलोकहितार्थाय ह्रदे पुण्य जलाश्रये
त्वया तस्मात्समागम्य चातुर्मास्यं शचीपते
न भवंति सहस्राक्ष येन ते परि पंथिनः
अन्योऽपि यो नरो भक्त्या पूजयिष्यति मामिह
तस्माद्गच्छ सहस्राक्ष कुरु राज्यं त्रिविष्टपे कार्यकाले समायाते श्वेतद्वीपे यथा तथा
वासुदेवोऽपि तत्रैव स्थितो लोकहिताय च
एवं तत्र द्विजश्रेष्ठा जलशायी जनार्दनः ६.४१.
यस्तं पूजयते भक्त्या श्रद्धया परया युतः
तथा देवगणैः सर्वैर्द्वारका तत्र सा कृता