वर्षाणामयुतं तावदहन्यहनि दारुणम्
ततो वर्षसहस्रांते दशमे समुपस्थिते ६.४१.
ततः स्वर्गं परित्यज्य सर्वदेवगणैः सह
यत्रास्ते भगवान्विष्णुर्योगनिद्रावशंगतः
ततो वेदोद्भवैः सूक्तैः स्तुतिं चक्रुः समंततः
अथोत्थाय जगन्नाथः प्रोवाच बलसूदनम् यत्त्वं देवगणैः सार्द्धं स्वयमेव इहागतः
अजेयः संगरे देवैस्तेनाहं विजितो रणे
संस्थितिश्च कृता स्वर्गे सांप्रतं मधु सूदन
तस्मात्त्वं समयंयावत्कुरु शक्र तपो महत्
येन ते जायते शक्तिस्तपोवीर्येण वासव ६.४१.
तस्य दैत्यस्य नाशार्थं तद स्माकं प्रकीर्तय
चिरं मनसि निश्चित्य क्षेत्राण्यायतनानि च
चमत्कारपुरं क्षेत्रं शक्र सिद्धिप्रदायकम्
बाष्कलेर्दानवेन्द्रस्य भयाद्भीताः कथंचन
तस्मादागच्छ तत्र त्वं स्वयमेव सुरेश्वर
अथ देवगणाः सर्वे तत्र गत्वा तदाऽऽश्रमान्
वासुदेवोऽपि संस्मृत्य क्षीरोदं तत्र सागरम्
चकार शयनं तत्र श्वेतद्वीपे यथा पुरा
अथाषाढस्य संप्राप्ते द्वितीयादिवसे शुभे प्रोवाच वचनं श्लक्ष्णं बाष्पव्याकुल लोचनम् ॥ ६.४१.
अतीव दयिता विष्णोः प्रसुप्तस्य जलाशये
अस्यां संपूजितो विष्णुर्यावन्मासचतुष्टयम् शास्त्रोक्तविधिना सम्यग्व्रतस्थो जलशायिनम्
एवं स चतुरो मासान्द्वितीयादिवसे हरिम्
तं दृष्ट्वा तेजसा युक्तं परितुष्टो जनार्दनः सर्वैर्देवगणैः सार्धं विजयस्ते भविष्यति
त्वया विना न गच्छामि सार्धं सर्वैः सुरैरपि
गमिष्यति वधार्थाय मदीयं सुरविद्विषाम्
एवमुक्त्वा हरिश्चक्रं प्रमुमोच सुदर्शनम्
शक्रोऽपि सहितस्तेन गत्वा चक्रेण कृत्स्नशः
स चापि बाष्कलिस्तेन च्छिन्नश्चक्रेण कृत्स्नशः
तथान्ये बहवः शूरा दानवा बलदर्पिताः ६.४१.
तेऽपि शक्रादयो देवाः प्रहृष्टा गतसंशयाः ४१ प्रभावात्तव देवेश हताः सर्वेऽमरारयः