लिंगं मंकणकन्यस्तं तत्रास्ति सुमहोदयम्
माघ शुक्लचतुर्दश्यां यस्तं पूजयते नरः
स्थानमस्ति सुविख्यातं सर्वपातकनाशनम्
यस्तत्पूजयते भक्त्या शयने बोधने हरेः
अशून्यशयनानाम द्वितीया दयिता तिथिः
तस्यां यः पूजयेत्तत्र तं देवं जलशायिनम्
पूज्यते विधिना केन तत्सर्वं विस्तराद्वद
अजेयः सर्वदेवानां गन्धर्वोरगरक्षसाम्
अथासौ भूतलं सर्वं वशीकृत्वा महाबलः
तत्राभवन्महायुद्धं देवासुरविनाशकम्
वर्षाणामयुतं तावदहन्यहनि दारुणम्
ततो वर्षसहस्रांते दशमे समुपस्थिते ६.४१.
ततः स्वर्गं परित्यज्य सर्वदेवगणैः सह
यत्रास्ते भगवान्विष्णुर्योगनिद्रावशंगतः
ततो वेदोद्भवैः सूक्तैः स्तुतिं चक्रुः समंततः
अथोत्थाय जगन्नाथः प्रोवाच बलसूदनम् यत्त्वं देवगणैः सार्द्धं स्वयमेव इहागतः
अजेयः संगरे देवैस्तेनाहं विजितो रणे
संस्थितिश्च कृता स्वर्गे सांप्रतं मधु सूदन
तस्मात्त्वं समयंयावत्कुरु शक्र तपो महत्
येन ते जायते शक्तिस्तपोवीर्येण वासव ६.४१.
तस्य दैत्यस्य नाशार्थं तद स्माकं प्रकीर्तय
चिरं मनसि निश्चित्य क्षेत्राण्यायतनानि च
चमत्कारपुरं क्षेत्रं शक्र सिद्धिप्रदायकम्
बाष्कलेर्दानवेन्द्रस्य भयाद्भीताः कथंचन
तस्मादागच्छ तत्र त्वं स्वयमेव सुरेश्वर
अथ देवगणाः सर्वे तत्र गत्वा तदाऽऽश्रमान्
वासुदेवोऽपि संस्मृत्य क्षीरोदं तत्र सागरम्
चकार शयनं तत्र श्वेतद्वीपे यथा पुरा
अथाषाढस्य संप्राप्ते द्वितीयादिवसे शुभे प्रोवाच वचनं श्लक्ष्णं बाष्पव्याकुल लोचनम् ॥ ६.४१.
अतीव दयिता विष्णोः प्रसुप्तस्य जलाशये