अथ तस्मिन्ह्रदे मर्त्याः स्नात्वा सारस्वते शुभे
अथ भीतः सहस्राक्षो गत्वा देवं पितामहम्
त्वत्प्रसादात्समुद्वीक्ष्य गच्छंति मनुजा दिवम् सारस्वतं नरास्तत्र स्नात्वा यांति त्रिविष्टपम्
अपि पापसमाचाराः सर्वधर्मबहिष्कृताः ६.४०.
शुभाशुभपरिज्ञानं सर्वेषामेव देहिनाम्
तस्मात्त्यज त्वं मां देव यद्वा तत्तीर्थमुत्तमम्
तस्य तद्वचनं श्रुत्वा यमस्य प्रपितामहः
ततः शक्रो ह्रदं गत्वा पूरयामास पांसुभिः
अद्यापि मनुजः सम्यक्त स्मिन्स्थाने व्यवस्थितः
सोऽपि मंकणकस्तत्र सार्द्धं देवेन शंभुना
लिंगं मंकणकन्यस्तं तत्रास्ति सुमहोदयम्
माघ शुक्लचतुर्दश्यां यस्तं पूजयते नरः
स्थानमस्ति सुविख्यातं सर्वपातकनाशनम्
यस्तत्पूजयते भक्त्या शयने बोधने हरेः
अशून्यशयनानाम द्वितीया दयिता तिथिः
तस्यां यः पूजयेत्तत्र तं देवं जलशायिनम्
पूज्यते विधिना केन तत्सर्वं विस्तराद्वद
अजेयः सर्वदेवानां गन्धर्वोरगरक्षसाम्
अथासौ भूतलं सर्वं वशीकृत्वा महाबलः
तत्राभवन्महायुद्धं देवासुरविनाशकम्
वर्षाणामयुतं तावदहन्यहनि दारुणम्
ततो वर्षसहस्रांते दशमे समुपस्थिते ६.४१.
ततः स्वर्गं परित्यज्य सर्वदेवगणैः सह
यत्रास्ते भगवान्विष्णुर्योगनिद्रावशंगतः
ततो वेदोद्भवैः सूक्तैः स्तुतिं चक्रुः समंततः
अथोत्थाय जगन्नाथः प्रोवाच बलसूदनम् यत्त्वं देवगणैः सार्द्धं स्वयमेव इहागतः
अजेयः संगरे देवैस्तेनाहं विजितो रणे
संस्थितिश्च कृता स्वर्गे सांप्रतं मधु सूदन
तस्मात्त्वं समयंयावत्कुरु शक्र तपो महत्
येन ते जायते शक्तिस्तपोवीर्येण वासव ६.४१.