तां च चित्रशिलां मध्ये ब्रह्मलोकं जगाम ह
अथ मंकणकोनाम महर्षिः संशितव्रतः
सक्रमाद्भ्रममाणस्तु तस्मिन्सर्पाभिरक्षिते
सोऽपि विद्याबलात्सर्पान्निर्विषांस्तांश्चकारह निष्क्रांतः सलिलात्तस्मात्कृतकृत्यो मुदान्वितः
ततश्चक्रे मुनिर्यावत्सम्यक्कुशपरिग्रहम् ६.४०.
अथ तस्मात्क्षताज्जातस्तस्य शाकरसो महान्
सिद्धोऽहमिति विज्ञाय नृत्यं चक्रे ततः परम्
अथैवं नृत्यमानस्य मुनेस्तस्य महात्मनः
चमत्कारपुरं कृत्स्नं भग्नं नष्टा द्विजोत्तमाः
]ततो देवगणाः सर्वे तद्दृष्ट्वा तस्य चेष्टितम्
अनेन नृत्यमानेन जगत्स्थावरजंगमम्
नान्यः शक्तः सुरश्रेष्ठ मुनिमेनं कथंचन
अथ तेषां वचः श्रुत्वा भगवान्वृषभध्वजः
अब्रवीच्च मुने कस्मात्त्वयैतन्नृत्यतेऽधुना
एवमुक्तः स विप्रेंद्रः शंकरेण द्विजोत्तमाः ६.४०.
किं नपश्यसि मे ब्रह्मन्कराच्छाकरसो महान्
एतस्मात्कारणाद्विप्र नृत्यमेतत्करोम्यहम्
एवं तु वदतस्तस्य भगवान्वृषभध्वजः
निश्चक्राम ततो भस्म हिमस्फटिकसंनिभम्
ततः प्रोवाच तं विप्रं स देवो द्विजसत्तमाः
तथाप्यहं मुनिश्रेष्ठ न नृत्यं कर्तुमुत्सहे
विरामं कुरु तस्मात्त्वं नृत्यादस्माद्विगर्हितात्
अब्रवीत्त्वामहं मन्ये नान्यं देवान्महेश्वरात्
स्थानेऽत्र भवता सार्धमहं स्थास्यामि सर्वदा ॥ ६.४०.
आनन्दितेन भवता प्रार्थितोऽहं यतो मुने एतत्पुरं च मे नाम्ना आनन्दाख्यं भविष्यति
एवमुक्त्वा महादेवो गतश्चादर्शनं ततः
अथ ते पन्नगाः प्रोचुः प्रणिपत्य मुनीश्वरम्
तस्मात्कुरु प्रसादं नो यथा स्याद्दारुणं विषम्
तस्मादेवंविधाः सर्वे जलसर्पा भविष्यथ
सूत उवाच ततःप्रभृति संजाता जलसर्पा महीतले