ततः संचिंतयामास स्वसुतां च सरस्वतीम्
अथ भूमितलं भित्त्वा प्रादुर्भूता महानदी
संध्यात्रयेऽपि त्वत्तोयैर्येन कृत्यं करोम्यहम्
तथा ये मानवाः स्नानं करिष्यंति जले तव
जनस्पर्शभयाद्भीता नागच्छामि महीतले ॥ ६.४०.
तवादेशोऽन्यथा नैव मया कार्यः कथंचन
अगम्यं सर्वमर्त्यानां तत्र त्वं स्थातुमर्हसि
एवमुक्त्वा स देवेशश्चखान च महाह्रदम्
ततो दृष्टिविषान्सर्पानादिदेश पितामहः
यथा सरस्वतीं मर्त्या न स्पृशंति कथंचन
तां च चित्रशिलां मध्ये ब्रह्मलोकं जगाम ह
अथ मंकणकोनाम महर्षिः संशितव्रतः
सक्रमाद्भ्रममाणस्तु तस्मिन्सर्पाभिरक्षिते
सोऽपि विद्याबलात्सर्पान्निर्विषांस्तांश्चकारह निष्क्रांतः सलिलात्तस्मात्कृतकृत्यो मुदान्वितः
ततश्चक्रे मुनिर्यावत्सम्यक्कुशपरिग्रहम् ६.४०.
अथ तस्मात्क्षताज्जातस्तस्य शाकरसो महान्
सिद्धोऽहमिति विज्ञाय नृत्यं चक्रे ततः परम्
अथैवं नृत्यमानस्य मुनेस्तस्य महात्मनः
चमत्कारपुरं कृत्स्नं भग्नं नष्टा द्विजोत्तमाः
]ततो देवगणाः सर्वे तद्दृष्ट्वा तस्य चेष्टितम्
अनेन नृत्यमानेन जगत्स्थावरजंगमम्
नान्यः शक्तः सुरश्रेष्ठ मुनिमेनं कथंचन
अथ तेषां वचः श्रुत्वा भगवान्वृषभध्वजः
अब्रवीच्च मुने कस्मात्त्वयैतन्नृत्यतेऽधुना
एवमुक्तः स विप्रेंद्रः शंकरेण द्विजोत्तमाः ६.४०.
किं नपश्यसि मे ब्रह्मन्कराच्छाकरसो महान्
एतस्मात्कारणाद्विप्र नृत्यमेतत्करोम्यहम्
एवं तु वदतस्तस्य भगवान्वृषभध्वजः
निश्चक्राम ततो भस्म हिमस्फटिकसंनिभम्
ततः प्रोवाच तं विप्रं स देवो द्विजसत्तमाः