इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये धुन्धुमारेश्वरमाहात्म्यवर्णनंनामाष्टात्रिंशो अध्यायः
ययातिना नरेंद्रेण स्थापितं लिंगमुत्तमम्
देवयान्या तथान्यच्च तथा शर्मिष्ठया द्विजाः
स यदा सर्वभोगानां तृप्तिं प्राप्तो द्विजोत्तमाः
जरामादाय तद्गात्राद्भार्याभ्यां सहितस्तदा
भगवन्सर्वतीर्थानां क्षेत्राणां च वदस्व मे
श्रीमार्कंडेय उवाच क्षेत्राणामिह सर्वेषां तीर्थैः सर्वैरलंकृतम्
यत्र विष्णुपदी गंगा जंतूनां पापनाशिनी
तथान्यानि च तीर्थानि यानि संति धरातले
शिला यत्र द्विपञ्चाशद्धस्तानां परिसंख्यया
यदन्यत्र शुभं कर्म वर्षेणैकेन सिध्यति ६.३९.
तस्मात्तत्र द्रुतं गत्वा तपः कुरु महीपते
तस्य तद्वचनं श्रुत्वा स राजा नहुषात्मजः
ततः संस्थाप्य तल्लिंगं देवदेवस्य शूलिनः
ततस्तस्य प्रभावेन भार्याभ्यां सहितो नृपः
किन्नरैर्गीयमानश्च स्तूयमानश्च चारणैः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये ययातीश्वरमाहात्म्यवर्णनंनामैकोनचत्वारिंशोऽध्यायः
मोक्षदा सर्वजंतूनां तथा पातकनाशिनी
सा कथं स्थापिता तत्र किंप्रभावा च सूतज
पुराऽभून्महती चिन्ता तीर्थयात्रासमुद्भवा
सर्वेषामेव देवानां संति तीर्थानि भूतले
यत्र त्रिकालमासाद्य कर्म संध्यासमुद्भवम्
तथान्यदपि यत्किञ्चित्कर्म धर्म्यं हितावहम्
न स्वर्गेऽस्ति हि कृत्यानामधिकारोऽत्र कश्चन
तस्माद्यत्र धरापृष्ठे शिलेयं निपतिष्यति
एवमुक्त्वा सुविस्तीर्णां शिलां तामा सनोद्भवाम्
अथ सा पतिता भूमौ सर्वरत्नमयी शिला ६.४०.
तत आगत्य लोकेशः स्वयमेव धरातलम्
ततः पुण्यतमे देशे दृष्ट्वा तां समुपस्थिताम्
सलिलेन विना यस्मान्न क्रिया संप्रवर्तते