ब्रह्मघ्ने च सुरापे च चौरे भग्नवते तथा
तस्मात्कोपो न कर्तव्यः क्षेत्रे चात्र व्यवस्थितैः
प्राप्तश्च परमां सिद्धिं दुर्लभां त्रिदशैरपि
दुःशीलाख्यः क्षितौ सोऽपि प्रासादः ख्याति मागतः
तस्य मध्यगतं लिंगं शुक्लाष्टम्यां सदा नरः
सर्वरत्नमयं कृत्वा प्रासादं सुमनोहरम्
तत्र कृत्वाऽऽश्रमं श्रेष्ठं तपस्तेपे सुदारुणम्
तस्य संनिहिता वापी कृता तेन महात्मना
धुन्धुमारेश्वरं पश्येत्तत्र स्नात्वा नरोत्तमः
कस्मिन्काले तपस्तप्तं तेनात्र सुमहात्मना
ख्यातः कुवलयाश्वेति धंधुमारस्तथैव सः
तेन धुन्धुर्महादैत्यो निहतो मरुजांगले
चमत्कारपुरं क्षेत्रं स गत्वा पावनं महत्
संस्थाप्य सुमहल्लिंगं प्रासादे रत्नमंडिते
ततस्तस्य महादेवः स्वयमेव महेश्वरः ६.३८.
उवाच वरदोऽस्मीति प्रार्थयस्व यथेप्सितम्
संनिधानं प्रकर्तव्यं लिंगेऽस्मिन्वृषभध्वज
अहं सदा करिष्यामि गौर्या सार्धं न संशयः
तत्र वाप्यां नरः स्नात्वा यो मां संपूजयिष्यति
सोऽपि राजा प्रहृष्टा त्मा स्थितस्तत्रैव मुक्तिभाक्
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये धुन्धुमारेश्वरमाहात्म्यवर्णनंनामाष्टात्रिंशो अध्यायः
ययातिना नरेंद्रेण स्थापितं लिंगमुत्तमम्
देवयान्या तथान्यच्च तथा शर्मिष्ठया द्विजाः
स यदा सर्वभोगानां तृप्तिं प्राप्तो द्विजोत्तमाः
जरामादाय तद्गात्राद्भार्याभ्यां सहितस्तदा
भगवन्सर्वतीर्थानां क्षेत्राणां च वदस्व मे
श्रीमार्कंडेय उवाच क्षेत्राणामिह सर्वेषां तीर्थैः सर्वैरलंकृतम्
यत्र विष्णुपदी गंगा जंतूनां पापनाशिनी
तथान्यानि च तीर्थानि यानि संति धरातले
शिला यत्र द्विपञ्चाशद्धस्तानां परिसंख्यया