दुःशीलोऽपि बहिश्चक्रे गृहं तस्य पुरस्य च
तस्यान्वयेऽपि ये जातास्ते बाह्याः संप्रकीर्तिताः
दुर्वासाः प्राह दुःशीलं कोपसंरक्तलो चनः
मम सिद्धिं गता मंत्राः समर्थाः शत्रुसंक्षये
तस्मादेतत्पुरं कृत्स्नं पशुपक्षि समन्वितम्
ब्राह्मणानां कृते कर्म ब्राह्मणस्य विशेषतः
निघ्नंतो वा शपंतो वा वदंतो वापि निष्ठुरम् ६.३७.
ब्राह्मणैर्निर्जितैर्मेने य आत्मानं जयान्वितम्
आत्मनश्च पराभूतिं तस्माद्विप्रात्सहेत वै
एतेषां ब्राह्मणेंद्राणां क्षेत्रे सिद्धिं समागताः
ब्रह्मघ्ने च सुरापे च चौरे भग्नवते तथा
तस्मात्कोपो न कर्तव्यः क्षेत्रे चात्र व्यवस्थितैः
प्राप्तश्च परमां सिद्धिं दुर्लभां त्रिदशैरपि
दुःशीलाख्यः क्षितौ सोऽपि प्रासादः ख्याति मागतः
तस्य मध्यगतं लिंगं शुक्लाष्टम्यां सदा नरः
सर्वरत्नमयं कृत्वा प्रासादं सुमनोहरम्
तत्र कृत्वाऽऽश्रमं श्रेष्ठं तपस्तेपे सुदारुणम्
तस्य संनिहिता वापी कृता तेन महात्मना
धुन्धुमारेश्वरं पश्येत्तत्र स्नात्वा नरोत्तमः
कस्मिन्काले तपस्तप्तं तेनात्र सुमहात्मना
ख्यातः कुवलयाश्वेति धंधुमारस्तथैव सः
तेन धुन्धुर्महादैत्यो निहतो मरुजांगले
चमत्कारपुरं क्षेत्रं स गत्वा पावनं महत्
संस्थाप्य सुमहल्लिंगं प्रासादे रत्नमंडिते
ततस्तस्य महादेवः स्वयमेव महेश्वरः ६.३८.
उवाच वरदोऽस्मीति प्रार्थयस्व यथेप्सितम्
संनिधानं प्रकर्तव्यं लिंगेऽस्मिन्वृषभध्वज
अहं सदा करिष्यामि गौर्या सार्धं न संशयः
तत्र वाप्यां नरः स्नात्वा यो मां संपूजयिष्यति
सोऽपि राजा प्रहृष्टा त्मा स्थितस्तत्रैव मुक्तिभाक्