एते मदावलिप्तानामेत एव सतां दमाः
तत्र येऽपि हि युष्माकं मदा एव व्यवस्थिताः
सदा सौहृदनिर्मुक्ताः पितरोऽपि सुतैः सह
एवमुक्त्वा स विप्रेन्द्रो निवृत्तस्तदनन्तरम्
अथ तन्मध्यगो विप्र आसीद्वृद्धतमः सुधीः
स दृष्ट्वा तं मुनिं क्रुद्धं गच्छंतमपमानितम्
अथासाद्य गतं दूरं प्रणिपत्य मुनिं च सः ६.३७.
एतैः स्वाध्यायसंपन्नैर्न श्रुतं वचनं तव
तस्माद्भूमिर्मया दत्ता शंभुहर्म्यकृते तव
तस्य तद्वचनं श्रुत्वा दुर्वासा हर्षसंयुतः प्रासादं निर्ममे पश्चात्तस्य वाक्ये व्यवस्थितः
अथ ते ब्राह्मणा ज्ञात्वा सुशीलेन वसुन्धरा
सर्वे कोपसमायुक्ताः सुशीलं प्रति ते द्विजाः
ततः प्रोचुः समासाद्य येन शप्ता दुरात्मना
तस्मात्त्वमपि चास्माकं बाह्य एव भविष्यसि
एषोऽपि तापसो दुष्टो यः करोति शिवालयम् ॥। नैव तस्य भवेत्सिद्धिश्चापि वर्षशतैरपि
तथा कीर्तिकृतां लोके कीर्तनं क्रियते नरैः
एष दुःशीलसंज्ञो वै तव नाम्ना भविष्यति ६.३७.
यस्मात्सौहृदनिर्मुक्ताः कृतास्तेन वयं द्विजाः
तस्मादेषोऽपि पापात्मा भविष्यति स कोपभाक्
एवमुक्त्वाथ ते विप्राः कोपसंरक्तलोचनाः
दुःशीलोऽपि बहिश्चक्रे गृहं तस्य पुरस्य च
तस्यान्वयेऽपि ये जातास्ते बाह्याः संप्रकीर्तिताः
दुर्वासाः प्राह दुःशीलं कोपसंरक्तलो चनः
मम सिद्धिं गता मंत्राः समर्थाः शत्रुसंक्षये
तस्मादेतत्पुरं कृत्स्नं पशुपक्षि समन्वितम्
ब्राह्मणानां कृते कर्म ब्राह्मणस्य विशेषतः
निघ्नंतो वा शपंतो वा वदंतो वापि निष्ठुरम् ६.३७.
ब्राह्मणैर्निर्जितैर्मेने य आत्मानं जयान्वितम्
आत्मनश्च पराभूतिं तस्माद्विप्रात्सहेत वै
एतेषां ब्राह्मणेंद्राणां क्षेत्रे सिद्धिं समागताः