तर्पणैः कन्यकानां च होमः स्यात्स फलप्रदः
एतत्कृतयुगे प्रोक्तं मंत्रसाधनमुत्त मम्
एतत्त्रेतायुगे प्रोक्तं पादोनं मन्त्रसाधनम्
एवं तत्र समासाद्य सिद्धिं मंत्रसमुद्भवाम्
शापानुग्रहसामर्थ्यसंयुतस्तेज साऽन्वितः
ततश्चित्रेश्वरं पीठं समायातोऽथ सन्मुनिः
तत्र संसाधयामास सर्वान्मंत्रान्यथाक्रमम्
इति संसिद्धमंत्रः स चमत्कारपुरं गतः ६.३६.
अथापश्यत्स विप्राणां वृन्दं वृन्दारकोपमम् ॥। एके वेदविदस्तत्र वेदव्याख्यानतत्पराः
यज्ञविद्याविदोऽन्येऽपि यज्ञाख्यानपरायणाः
अन्ये ब्राह्मणशार्दूला वेदांगेषु विचक्षणाः
वेदाभ्यासपराश्चान्ये तारनादेन सर्वशः
अन्ये कौतूहलाविष्टाः संचरान्विषमान्मिथः
स्मृतिवादपराश्चान्ये तथान्ये श्रुतिपाठकाः
कीर्तयंति तथा चान्ये पुराणं ब्राह्मणोत्तमाः
अथ तान्स मुनिर्दृष्ट्वा ब्राह्मणान्संशितव्रतान्
मम बुद्धिः समुत्पन्ना शम्भोरायतनं प्रति ६.३७.
तवाहं देवदेवस्य शम्भोः प्रासादमुत्तमम्
स एवं जल्पमानोऽपि मुहुर्मुहुरतंद्रितः
ततः कोपपरीतात्मा समुनिस्तान्द्विजोत्तमान्
एते मदावलिप्तानामेत एव सतां दमाः
तत्र येऽपि हि युष्माकं मदा एव व्यवस्थिताः
सदा सौहृदनिर्मुक्ताः पितरोऽपि सुतैः सह
एवमुक्त्वा स विप्रेन्द्रो निवृत्तस्तदनन्तरम्
अथ तन्मध्यगो विप्र आसीद्वृद्धतमः सुधीः
स दृष्ट्वा तं मुनिं क्रुद्धं गच्छंतमपमानितम्
अथासाद्य गतं दूरं प्रणिपत्य मुनिं च सः ६.३७.
एतैः स्वाध्यायसंपन्नैर्न श्रुतं वचनं तव
तस्माद्भूमिर्मया दत्ता शंभुहर्म्यकृते तव
तस्य तद्वचनं श्रुत्वा दुर्वासा हर्षसंयुतः प्रासादं निर्ममे पश्चात्तस्य वाक्ये व्यवस्थितः