सर्पनाशाय यस्तत्र सार्पसूक्तं जपेन्नरः
विषनाशाय यस्तत्र जपेच्छ्र द्धासमन्वितः
स्थावरजगमं वापि कृत्रिमं यदि वा विषम्
व्याघ्रसाम जपेद्यस्तु तत्र श्रद्धासमन्वितः
कृषिकर्मप्रसि द्ध्यर्थं यो जपेल्लांगलानि च
ईतिनाशाय तत्रैव जपेद्देवव्रतं नरः
अनावृष्टिहते लोके पंचेंद्रं तत्र यो जपेत्
दंष्ट्राभ्या मिति यस्तत्र नरश्चौरार्दितः पठेत् ६.३६.
विवादार्थं जपेद्यस्तु संसृष्टमिति तत्र च
यो रिपूच्चाटनार्थाय नरो रुद्रशिरो जपेत्
मोहनाय रिपूणां च यो जपेद्विष्णुसंहिताम्
वशीकरणहेतोर्यः कूष्मांडीः प्रजपेन्नरः
यः स्तंभाय रिपूणां वै प्राजापत्यं च वारुणम् मंत्रसंस्तंभितास्तस्य जायंते सर्वशत्रवः
जपेत्काली करालीति यः शोषाय नरो द्विजाः
एष मंत्रस्तदा जप्तो ह्यगस्त्येन महात्मना
एतत्प्रभावं यत्पीठं मंत्राणां सिद्धिकारकम्
यो वांछति पुनः स्वर्गं स तत्र द्विजसत्तमाः
अथ वांछति यो मोक्षं विरक्तो भवसागरात् ६.३६.
तत्कथं सिद्धिमायाति मंत्रजाप्यं हि सूतज
वदतो ब्राह्मणेंद्रस्य पुरा दुर्वाससो मुनेः
तेन पूर्वं पिताऽस्माकं पृष्टो दुर्वाससा द्विजाः
दुर्वासा उवाच साधयिष्याम्यहं मन्त्रमभीष्टं कमपि व्रती
प्रत्यवायसमोपेतं बहुच्छिद्रसमाकुलम्
तस्मान्मंत्रकृते सिद्धिं यदि त्वं वांछसि द्विज
तत्र चित्रेश्वरीपीठमगस्त्येन विनिर्मितम्
न तत्र जायते छिद्रं प्रत्यवायो न च द्विज
चातुर्युंग्यं हि तत्पीठं स्थितानां सिद्धिमाह रेत्
यो यं साधयितुं मन्त्रमिच्छति द्विजसत्तम ॥ ६.३६.
ततो भवति संसिद्धो मंत्रार्हः स नरः शुचिः दशांशेन तु होमः स्यात्सुसमिद्धे हुताशने
ततस्तु जायते सिद्धिर्नूनं तन्मंत्रसंभवा