सहस्रेणापि वर्षाणां मुखानामयुतैरपि
तत्र सिद्धिमनुप्राप्ताः शतशोऽथ सहस्रशः
अन्यपीठेषु या सिद्धिर्वर्षानुष्ठानतो भवेत्
यस्तत्राथ र्वणान्मंत्राञ्जपेच्छ्रद्धासमन्वितः
पुत्रकामो नरस्तत्र पुंलिंगान्यो जपेन्नरः
गर्भोपनिषदं तत्र पुत्रकामो जपेन्नरः
शत्रुलोकविनाशाय यो जपेच्छतरुद्रियम् ॥ तस्मिन्पीठेऽरयस्तस्य सद्यो गच्छंति संक्षयम्
भूतप्रेतपिशाचादिरक्षार्थं तत्र मानवः
कोऽदादिति नरस्तत्र कन्यार्थं यो जपेदृचम् ६.३६.
यो भूपालप्रसादार्थमिमं देवा निशं जपेत्
स्वस्त्रीस्नेहकृतेयस्तु तं पत्नीभिरिति द्विजाः ॥। जपेद्भार्या भवेत्साध्वी तस्य सा स्नेहवत्सला
यो लोकानुग्रहार्थाय जपेददितिरित्यपि
वित्तार्थी यो जपेत्तत्र श्रीसूक्तं मनुजो द्विजाः
जपेद्रथंतरं साम यानार्थं तत्र यो नरः
गजार्थी यो जपेत्तत्र गणानां द्विजसत्तमाः
न तद्रक्षेति यो मन्त्रं जपेद्र क्षाकृते नरः
सप्तर्षय इति श्रेष्ठां यो जपेत्तु समाहितः
यदुभी यो जपेत्तत्र ग्रहपीडार्दितो जनः ६.३६.
भूतपीडार्दितो यश्च बृहत्साम जपेन्नरः
यात्रासिद्धिकृते यश्च जपेत्सूक्तं च शाकुनम्
सर्पनाशाय यस्तत्र सार्पसूक्तं जपेन्नरः
विषनाशाय यस्तत्र जपेच्छ्र द्धासमन्वितः
स्थावरजगमं वापि कृत्रिमं यदि वा विषम्
व्याघ्रसाम जपेद्यस्तु तत्र श्रद्धासमन्वितः
कृषिकर्मप्रसि द्ध्यर्थं यो जपेल्लांगलानि च
ईतिनाशाय तत्रैव जपेद्देवव्रतं नरः
अनावृष्टिहते लोके पंचेंद्रं तत्र यो जपेत्
दंष्ट्राभ्या मिति यस्तत्र नरश्चौरार्दितः पठेत् ६.३६.
विवादार्थं जपेद्यस्तु संसृष्टमिति तत्र च
यो रिपूच्चाटनार्थाय नरो रुद्रशिरो जपेत्