एतत्ते सर्वमाख्यातं यन्मां त्व परिपृच्छसि
यस्त्वेतत्पठते भक्त्या श्लाघते वाऽथ यो नरः
यत्ख्यातिमगमत्पूर्वं सकाशाद्दाशवर्गतः
पुराऽऽसीद्रजको नाम्ना शमिलाक्षो महीपते
अथासौ भयमापन्नो ज्ञात्वा वस्त्रविडंबनम्
अथ तस्य सुता राजन्दाशकन्यासखी शुभा
तस्यै निवेदयामास भयं वस्त्रसमुद्भवम्
दाशकन्यापि दुःखेन तस्या दुःखसमन्विता
ध्रुवं तेन कृतेनैव निर्भयं ते च ते पितुः
अत्रास्ति निर्झरं सुभ्रूरर्बुदे वरवर्णिनि
यच्चान्यदपि तत्रैव क्षिप्यते सलिले शुभे
सर्वेषामेव दाशानां तस्य तोयस्य मज्जनात् जले प्रक्षालयेत्क्षिप्रं प्रयास्यंति सुशुक्लताम् ॥ 7.3.23.
त्वयाऽत्र न भयं कार्यं गत्वा तातं निवारय
जनकाय सुता तूर्णं ततोऽसौ तुष्टिमाप्तवान्
प्रातरुत्थाय तूर्णं स निर्झरं तमुपाद्रवत्
तस्मिंस्तोयेतिशुक्लत्वं गतानि बहुलां ततः
अथासौ विस्मयाविष्टस्तानि चादाय सत्वरः
ततो विस्मयमापन्नः स राजा तत्र निर्झरे
सर्वाणि शुक्लतां यांति विशिष्टानि भवंति च
त्यक्त्वा राज्यं स तत्रैव तपस्तेपे महीपतिः
एकादश्यां नरस्तत्र यः श्राद्धं कुरुते नृप स्नानेनव विपापत्वं तत्क्षणादेव जायते
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखंडे शुक्लतीर्थमाहात्म्यवर्णनंनाम त्रयोविंशोऽध्यायः
देवी कात्यायनी यत्र शुंभदानवनाशिनी
शुंभोनाम महादैत्यः पुराऽऽसीत्पृथिवीतले
स शंकरवराद्दैत्यो देवदानवरक्षसाम्
ततो देवगणाः सर्वे गत्वाऽर्बुदमथाचलम् देवीमाराधयामासुर्व्यक्तरूपां सुरेश्वरीम्
अथ तेषां प्रसन्ना सा दृष्टिगोचरमागता
तं निषूदय कल्याणि सोवध्योन्यैः सदा रणे
त्वया संरक्षिता देवि पुरा बाष्कलितो वयम्
स तया याचिते युद्धे ज्ञात्वा तां योषितं नृप