ततः सर्वाणि पीठानि यानि संति धरातले
अष्टम्यां च चतुर्दश्यां तेषु संपूज्य भक्तितः
विद्यां विशोषिणीनाम समाराधयत द्विजः आकाशचारिणीं चैव देवतां श्रद्धया द्विजः
ततः संवत्सरस्यांते प्रसन्ना तस्य देवता
येन संशोषयाम्याशु समुद्रं देवि वाग्यतः
सा तथेति प्रतिज्ञाय प्रविष्टा सत्वरं मुखे
एतस्मिन्नंतरे प्राप्ताः सर्वे देवाः सवासवाः
ततः संप्रस्थितो विप्रो देवैः सर्वैः समाहितः
अथ गत्वा समुद्रांतं स्तूयमानो दिवालयैः
एषोऽहं सागरं सद्यः शोषयिष्यामि सांप्रतम् ६.३५.
हेलया प्रपपौ कृत्स्नं ग्राहैः कीर्णं महार्णवम्
ततः स्थलोपमे जाते ते दैत्याः सुरसत्तमैः
अथ कृत्वा महद्युद्धं यथा शक्त्यातिदारुणम्
ततः प्रोचुः सुराः सर्वे स्तुत्वा तं मुनिसत्तमम्
नैषा वसुमती विप्र समुद्रेण विनाकृता
या मयाऽऽराधिता विद्या वर्षंयावत्प्रशोषणी
एष यास्यति वै पूर्तिं भूयोऽपि वरुणालयः
सगरोनाम भूपालो भविष्यति महीतले
तस्यैवान्वयवान्राजा भविष्यति भगीरथः
प्रवाहेण ततस्तस्याः समंतादंभसांनिधिः ६.३५.
तस्मात्प्रार्थय चित्तस्थं वरं सर्वं मुनीश्वर
आनीतानि प्रभावेन मंत्राणां सुरसत्तमाः
तस्मात्तेषां सदा वासस्तत्रैवास्तु प्रभावतः
अष्टम्यां च चतुर्दश्यां तानि यः श्रद्धयाऽन्वितः
तस्माच्चित्रेश्वरं नाम पीठमेकं भविष्यति
यो यं काममभिध्याय तत्र पूजां करिष्यति
तंतं कामं नरः शीघ्रं संप्राप्स्यति महामुने
एवमुक्त्वा सुराः सर्वे तमामन्त्र्य मुनीश्वरम्
अगस्त्येन पुरा पीतो देवकार्यप्रसिद्धये
यत्प्रमाणं यत्प्रभावं तदस्माकं प्रकीर्तय