अगम्यं मनसा तेषां प्रविष्टा वरुणालयम्
प्रहृष्टमनसः सर्वे स्तुत्वा देवं महेश्वरम्
तेनैव चाथ निर्मुक्ताः प्रणम्य च मुहुर्मुहुः
तेऽपि दानवशार्दूला हताशाश्च सुरोत्तमैः
तेषां मंत्रयतामेष निश्चयः समपद्यत
तस्मात्तपस्विनो यै च ये च यज्ञपरायणाः
एवं ते निश्चयं कृत्वा निष्क्रम्य वरुणालयात्
यत्र यत्र भवेद्यज्ञः सत्रं ऽप्युत्सवोऽथवा
तैः प्रसूता मखा ध्वस्ता दीक्षिता विनिपातिताः ८- सहस्रं ब्राह्मणेंद्राणां भक्षितं तैर्दुरात्मभिः.
शतानि च सहस्राणि निहतानि द्विजन्मनाम् ६.३५.
एतस्मिन्नेव काले तु समस्तं धरणीतलम्
न कश्चिच्छयनं रात्रौ प्रकरोति मही तले
रात्रौ स्वपंति ये केचिद्विश्वस्ता धर्मभाजनाः
अथ देवगणाः सर्वे यज्ञभागविनाकृताः
ततो गत्वा समुद्रांतं वधाय सुरविद्विषाम्
ततः समुद्रनाशाय मंत्रं चक्रुः सुदुःखिताः
अगस्त्येन विना नैष शोषं यास्यति सागरः
चमत्कारपुरे क्षेत्रे स तिष्ठति च सन्मुनिः
एवं निश्चित्य ते सर्वे त्रिदशास्तस्य चाश्रमम्
सोऽपि सर्वान्समालोक्य संप्राप्तान्सुरसत्तमान् ६.३५.
प्रोवाच प्रांजलिर्वाक्यं हर्ष गद्गदया गिरा
चमत्कारपुरं क्षेत्रमेतन्मेध्यमपि स्थितम्
तस्माद्वदत यत्कृत्यं मया संसिद्ध्यतेऽधुना
ते समुद्रं समाश्रित्य निघ्नंति शुभकारिणः
शुभे नाशमनुप्राप्ते ध्रुवं नाशो दिवौकसाम्
येन ते गोचरं प्राप्ता दृष्टेर्दानवसत्तमाः
अगस्त्य उवाच अहं संवत्सरस्यांते शोषयिष्यामि सागरम्
तस्माद्व्रजत हर्म्याणि यूयं याति हि वत्सरम्
ततो मया समं गत्वा शोषिते वरुणालये
ततो देवगणाः सर्वे गताः स्वेस्वे निकेतने ६.३५.