सोऽपि तच्चक्रमालोक्य वासुदेवकराच्च्युतम्
अग्रसच्च महादैत्यस्तिष्ठतिष्ठेति चाब्रवीत्
ततश्चक्री स दैत्येन ग्रस्तचक्रेण ताडितः
एतस्मिन्नंतरे क्रुद्धो भगवांस्त्रिपुरांतकः
ततः शूलप्रहारेण तं निहत्य दनोः सुतम्
कालप्रभं प्रकालं च कालास्यं कालविग्रहम् ६.३४.
ततः प्रधानास्ते सर्वे दानवा अपिदारुणाः
ततः शक्रश्च विष्णुश्च लब्धसंज्ञौ धृतायुधौ
एतस्मिन्नंतरे भग्नान्समुद्वीक्ष्य दनोः सुतान्
अथ ते हतभूयिष्ठा दानवा बलवत्तराः
अगम्यं मनसा तेषां प्रविष्टा वरुणालयम्
प्रहृष्टमनसः सर्वे स्तुत्वा देवं महेश्वरम्
तेनैव चाथ निर्मुक्ताः प्रणम्य च मुहुर्मुहुः
तेऽपि दानवशार्दूला हताशाश्च सुरोत्तमैः
तेषां मंत्रयतामेष निश्चयः समपद्यत
तस्मात्तपस्विनो यै च ये च यज्ञपरायणाः
एवं ते निश्चयं कृत्वा निष्क्रम्य वरुणालयात्
यत्र यत्र भवेद्यज्ञः सत्रं ऽप्युत्सवोऽथवा
तैः प्रसूता मखा ध्वस्ता दीक्षिता विनिपातिताः ८- सहस्रं ब्राह्मणेंद्राणां भक्षितं तैर्दुरात्मभिः.
शतानि च सहस्राणि निहतानि द्विजन्मनाम् ६.३५.
एतस्मिन्नेव काले तु समस्तं धरणीतलम्
न कश्चिच्छयनं रात्रौ प्रकरोति मही तले
रात्रौ स्वपंति ये केचिद्विश्वस्ता धर्मभाजनाः
अथ देवगणाः सर्वे यज्ञभागविनाकृताः
ततो गत्वा समुद्रांतं वधाय सुरविद्विषाम्
ततः समुद्रनाशाय मंत्रं चक्रुः सुदुःखिताः
अगस्त्येन विना नैष शोषं यास्यति सागरः
चमत्कारपुरे क्षेत्रे स तिष्ठति च सन्मुनिः
एवं निश्चित्य ते सर्वे त्रिदशास्तस्य चाश्रमम्
सोऽपि सर्वान्समालोक्य संप्राप्तान्सुरसत्तमान् ६.३५.