स्पर्द्धया गिरिमुख्यस्य सुमेरोर्मुनिसतम
सामाद्यैर्विविधोपायैस्तस्मादेनं निवारय
अगस्त्य उवाच अहं ते वारयिष्यामि वर्धमानं कुलाचलम्
ततः स प्रेषितस्ते न भास्करस्तीक्ष्णदीधितिः
अगस्त्योऽपि द्रुतं गत्वा विंध्यं प्रोवाच सादरम्
दाक्षिणात्येषु तीर्थेषु स्नाने जाताद्य मे मतिः
स तस्य वचनं श्रुत्वा विंध्यः पर्वतसत्तमः
अगस्त्योऽपि समासाद्य तस्यांतं दक्षिणं द्विजाः ६.३३.
स तथेति प्रतिज्ञाय शापाद्भीतो नगोत्तमः
सोऽपि तेनैवमार्गेण निवृत्तिं न करोति च
अथ तत्रैव चानीय लोपामुद्रां मुनीश्वरः
तव वाक्यान्मया त्यक्तः स्वाश्रमस्तीक्ष्णदी धिते
तस्मान्मद्वचनाद्भानो चतुर्दश्यां मधौ सिते
पूजयिष्यामि तल्लिंगं वर्षांते स्वयमेव हि
योऽन्यो हि तद्दिने लिंगं पूजयिष्यति मानवः
चैत्रशुक्लचतुर्दश्यां सांनिध्यं कुरुते सदा
एतद्वः सर्वमाख्यातं यत्पृष्टोस्मि द्विजोत्तमाः ६.३३.
त्वया पुरा सुरार्थाय प्रपीतः पयसांनिधिः
तत्त्वं सूतज नो ब्रूहि विस्तरेण महामते
संभूताः सर्वदेवानां वीर्योत्साहप्रणाशकाः
ततस्तैः पीडितं दृष्ट्वा विष्णुना प्रभविष्णुना
एतदीशान दैतेयैस्त्रैलोक्यं परिपीडितम् अद्यैव तैः समं देव समासाद्य धरातलम्
ततो विष्णुश्च रुद्रश्च सहस्राक्षः सुरैः सह
अथ ते दानवाः सर्वे श्रुत्वा देवान्स- मागतान्
ततोऽभवन्महायुद्धं देवानां दानवैः सह
अथ कालप्रभोनाम दानवो बलगर्वितः प्रोवाच प्रहसन्वाक्यं मेघगम्भीरनिःस्वनः
मुंच वज्र सहस्राक्ष पश्यामि तव पौरुषम् ६.३४.
ततश्चिक्षेप संक्रुद्धस्तस्य वज्रं शतक्रतुः
ततः शक्रं समुद्दिश्य गदां गुर्वीं मुमोच सः
तया हतः सहस्राक्षो विसंज्ञो रुधिरप्लुतः