न निष्क्रामति दैत्यश्च बाष्कलिस्त्वं तथा कुरु
मुक्त्वा स्वे पादुके तत्र कृत्वा चाश्मसमुद्भवे
विन्यस्ते पादुके तस्य रक्षार्थं बाष्कलेः सुराः
मत्पादुकाभराक्रांतो न स दैत्यः सुरोत्तमाः
एतच्छास्त्रं मया कृत्स्नं पादुकार्थं विनिर्मितम्
शास्त्रमार्गेण चानेन भक्त्या यः पादुके मम
चैत्रशुक्लचतुर्द्दश्यामहमत्रार्बुदे सदा ॥ 7.3.22.
पर्वतोऽयं ममाभीष्टो न च त्यक्तुं मनो दधे
स्तूयमाना ययौ स्वर्गं मुक्त्वा ते पादुके शुभे
अद्यापि सिद्धिमायांति योगिनो ध्यानतत्पराः
एतत्ते सर्वमाख्यातं यन्मां त्व परिपृच्छसि
यस्त्वेतत्पठते भक्त्या श्लाघते वाऽथ यो नरः
यत्ख्यातिमगमत्पूर्वं सकाशाद्दाशवर्गतः
पुराऽऽसीद्रजको नाम्ना शमिलाक्षो महीपते
अथासौ भयमापन्नो ज्ञात्वा वस्त्रविडंबनम्
अथ तस्य सुता राजन्दाशकन्यासखी शुभा
तस्यै निवेदयामास भयं वस्त्रसमुद्भवम्
दाशकन्यापि दुःखेन तस्या दुःखसमन्विता
ध्रुवं तेन कृतेनैव निर्भयं ते च ते पितुः
अत्रास्ति निर्झरं सुभ्रूरर्बुदे वरवर्णिनि
यच्चान्यदपि तत्रैव क्षिप्यते सलिले शुभे
सर्वेषामेव दाशानां तस्य तोयस्य मज्जनात् जले प्रक्षालयेत्क्षिप्रं प्रयास्यंति सुशुक्लताम् ॥ 7.3.23.
त्वयाऽत्र न भयं कार्यं गत्वा तातं निवारय
जनकाय सुता तूर्णं ततोऽसौ तुष्टिमाप्तवान्
प्रातरुत्थाय तूर्णं स निर्झरं तमुपाद्रवत्
तस्मिंस्तोयेतिशुक्लत्वं गतानि बहुलां ततः
अथासौ विस्मयाविष्टस्तानि चादाय सत्वरः
ततो विस्मयमापन्नः स राजा तत्र निर्झरे
सर्वाणि शुक्लतां यांति विशिष्टानि भवंति च
त्यक्त्वा राज्यं स तत्रैव तपस्तेपे महीपतिः