तस्मादन्योऽपि यस्तस्यां भक्त्या चागत्य शंकरम्
यस्तत्र कुरुते श्राद्धं सम्यक्छ्रद्धासमन्वितः
प्रदक्षिणां प्रकुरुते वदैतन्मे सुविस्तरम्
अस्ति विंध्य इति ख्यातः पर्वतः पृथिवीतले
यस्य वृक्षाग्रशाखायां संलग्नास्तरणेः कराः
अनभिज्ञास्तमिस्रस्य यस्य सानुनिवासिनः
यस्य सानुषु मुंचंतो भांति पुष्पाणि पादपाः
यस्मिन्नानामृगा भांति धावमाना इतस्ततः ॥ ६.३३.
निर्यासच्छद्मना बाष्पं वासिताशेषदिङ्मुखम्
चीरिकाविरुतैर्दीर्घै रुदंत इव चापरे
इतश्चेतश्च गच्छद्भिर्निर्झरांभोभिरावृतः
यस्य स्पर्द्धा समुत्पन्ना पूर्वं सह सुमेरुणा
कस्माद्भास्कर मेरोस्त्वं प्रकरोषि प्रदक्षिणाम्
एष मे विहितः पन्था येनेदं विहितं जगत्
तस्य तुंगानि शृंगाणि व्याप्य खं संश्रितानि च
एतच्छ्रुत्वा विशेषेण संक्रुद्धो विंध्यपर्वतः रुरोधाथ नभोमार्गं येन गच्छति भास्करः
अथ रुद्धं समालोक्य मार्गं वासरनायकः
करोमि यद्यहं चास्य पर्वतस्य प्रदक्षिणाम् ६.३३.
मासर्तुभुवनानां च तथा भावी विपर्ययः नष्टयज्ञोत्सवे लोके देवानां स्यान्महाव्यथा
एवं संचिन्त्य चित्तेन बहुधा तीक्ष्णदीधितिः
नान्योस्ति वारणे शक्तो विंधस्यास्य हि तं विना
ततो द्विजमयं रूपं स कृत्वा तीक्ष्णदीधितिः
ततस्तु वैश्वदेवांते वेदोच्चारपरायणः
ततोऽगस्त्यः कृतानन्दः स्वागतं ते महामुने
तत्त्वं ब्रूहि मुनिश्रेष्ठ यद्ददामि तवेप्सितम्
सर्वकार्यक्षमं मत्वा त्वामेकं भुवनत्रये
त्वया पूर्वं सुरार्थाय प्रपीतः पयसांनिधिः
तस्माद्गतिर्भवास्माकं सांप्रतं मुनिसत्तम ६.३३.
अर्घ्यं दत्त्वा दिनेशाय ततः प्रोवाच सादरम्
धन्योऽस्म्यनुगृहीतोस्मि यन्मे त्वं गृहमागतः