इंगुदैर्बदरैर्वापि बिल्वैर्भल्लातकैरपि
स यास्यति परां सिद्धिं दुर्लभां त्रिदशैरपि
सूत उवाच एवमुक्त्वा सहस्राक्षस्तैः सर्वैरभिनंदितः
जगामादर्शनं तेऽपि स्थितास्तत्र द्विजोत्तमाः
ततः काले गते तेऽपि कृत्वा तीव्रं महत्तपः
तैस्तत्र स्थापितं लिङ्गं देवदेवस्य शूलिनः
यस्तल्लिंगं पुनर्भक्त्या पुष्पधूपानुलेपनैः
एतत्पवित्र मायुष्यं सर्वपातकनाशनम् ६.३२.
यत्र तिष्ठति विश्वात्मा स्वयं देवो महेश्वरः
शुक्लपक्षे चतुर्दश्यां चैत्रमासे दिवाकरः
तस्मादन्योऽपि यस्तस्यां भक्त्या चागत्य शंकरम्
यस्तत्र कुरुते श्राद्धं सम्यक्छ्रद्धासमन्वितः
प्रदक्षिणां प्रकुरुते वदैतन्मे सुविस्तरम्
अस्ति विंध्य इति ख्यातः पर्वतः पृथिवीतले
यस्य वृक्षाग्रशाखायां संलग्नास्तरणेः कराः
अनभिज्ञास्तमिस्रस्य यस्य सानुनिवासिनः
यस्य सानुषु मुंचंतो भांति पुष्पाणि पादपाः
यस्मिन्नानामृगा भांति धावमाना इतस्ततः ॥ ६.३३.
निर्यासच्छद्मना बाष्पं वासिताशेषदिङ्मुखम्
चीरिकाविरुतैर्दीर्घै रुदंत इव चापरे
इतश्चेतश्च गच्छद्भिर्निर्झरांभोभिरावृतः
यस्य स्पर्द्धा समुत्पन्ना पूर्वं सह सुमेरुणा
कस्माद्भास्कर मेरोस्त्वं प्रकरोषि प्रदक्षिणाम्
एष मे विहितः पन्था येनेदं विहितं जगत्
तस्य तुंगानि शृंगाणि व्याप्य खं संश्रितानि च
एतच्छ्रुत्वा विशेषेण संक्रुद्धो विंध्यपर्वतः रुरोधाथ नभोमार्गं येन गच्छति भास्करः
अथ रुद्धं समालोक्य मार्गं वासरनायकः
करोमि यद्यहं चास्य पर्वतस्य प्रदक्षिणाम् ६.३३.
मासर्तुभुवनानां च तथा भावी विपर्ययः नष्टयज्ञोत्सवे लोके देवानां स्यान्महाव्यथा
एवं संचिन्त्य चित्तेन बहुधा तीक्ष्णदीधितिः