ततो बुभुक्षयाविष्टा बिसान्यादाय भूरिशः
अथोत्तीर्यजलात्सर्वे ते समेत्य परस्परम्
मृणालानि समस्तानि स्थानादस्माद्धृतानि च
ते शंकमाना अन्योन्यमृषयः शंसितव्रताः
कूटसाक्षित्वमभ्ये तु बिसस्तैन्यं करोति यः
धर्मं करोतु दंभेन राजानं चोपसेवताम्
वसिष्ठ उवाच अनृतौ मैथुनं यातु दिवा वाप्यथ पर्वणि ६.३२.
भरद्वाज उवाच योधिगम्य गुरोः शास्त्रं निष्क्रयं न प्रयच्छति
नृशंसोऽस्तु स सर्वत्र समृद्ध्या चाप्यहंकृतः
वेदविक्रयकर्तास्तु बिसस्तैन्यं करोति यः
अस्तु वार्धुषिको नित्यं बिसस्तैन्यं करोति यः
गौतम उवाच स गृह्णात्वविकादानं करोतु हयविक्रयम्
शूद्रं पृच्छतु धर्मार्थं बिसस्तैन्यं करोति यः
प्रतिश्रुत्य न यो दद्याद्ब्राह्मणाय गवादिकम् -
नारी दुष्टसमाचारा बिसस्तैन्यं करोति या
साधुद्वेषपरा चैव बिसस्तैन्यं करोति या
पशुमुख उवाच स्वामिद्रोहरतो नित्यं स भूयात्पापकृन्नरः ६.३२.
सत्यं वदतु चाजस्रं बिसस्तैन्यं करोति यः
बिसस्तैन्यं हि चास्माकं तन्नूनं भवता कृतम्
धर्मान्वै श्रोतुकामेन मां जानीत पुरंदरम्
युष्माकं परितुष्टोऽस्मि लोभाभावाद्द्विजोत्तमाः ॥ तस्मात्स्वर्गं मया सार्द्धं शीघ्रमागम्यतामिति ।ा
तस्मात्तपश्चरिष्यामः सरसीह विमुक्तये
पूर्णा सागरपर्यंतां चरित्वा पृथिवी मिमाम् तस्माद्गच्छ तव श्रेयो भूयादस्मात्समागमात्
तस्माद्गृह्णीत यच्चित्ते सदाभीष्टं व्यवस्थितम्
नाम्नास्माकं तथा नृणां सर्वपातकनाशनः
वयं स्थास्यामहे नित्यमत्रैव सुरसत्तम
तथा कामप्रदश्चैव लोकानां संभविष्यति ॥ ६.३२.
यो यं काममभिध्याय श्राद्धमत्र करिष्यति
निष्कामो वा नरो यस्तु श्राद्धं दानमथापि वा
ये चात्र देहं त्यक्ष्यंति युष्माकं चाश्रमे शुभे