न जातु कामी कामानां सहस्रैरपि तुष्यति
कामानभिलषन्मोहान्न नरः सुखमाप्नुयात्
नित्यं सागरपर्यन्तां यो भुङ्क्ते पृथिवीमिमाम्
न च पश्यति मन्दात्मा नरकं चा कुतोभयः
प्रतिग्रहसमर्थानां निवृत्तानां प्रतिग्रहात्
अरुन्धत्युवाच तृष्णा चैवमनाद्यन्ता स्थिता देहे शरीरिणाम्
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः
यदाचरन्ति विद्वांसः सदा धर्मपरायणाः।. तदेव विदुषा कार्यमात्मनो हितमिच्छता॥६.३२.
चमत्कारपुरेक्षेत्रे विविशुस्ते ततः परम्
तेनैव सहितास्तत्र गत्वा किञ्चिद्वनान्तरम्
ततो बुभुक्षयाविष्टा बिसान्यादाय भूरिशः
अथोत्तीर्यजलात्सर्वे ते समेत्य परस्परम्
मृणालानि समस्तानि स्थानादस्माद्धृतानि च
ते शंकमाना अन्योन्यमृषयः शंसितव्रताः
कूटसाक्षित्वमभ्ये तु बिसस्तैन्यं करोति यः
धर्मं करोतु दंभेन राजानं चोपसेवताम्
वसिष्ठ उवाच अनृतौ मैथुनं यातु दिवा वाप्यथ पर्वणि ६.३२.
भरद्वाज उवाच योधिगम्य गुरोः शास्त्रं निष्क्रयं न प्रयच्छति
नृशंसोऽस्तु स सर्वत्र समृद्ध्या चाप्यहंकृतः
वेदविक्रयकर्तास्तु बिसस्तैन्यं करोति यः
अस्तु वार्धुषिको नित्यं बिसस्तैन्यं करोति यः
गौतम उवाच स गृह्णात्वविकादानं करोतु हयविक्रयम्
शूद्रं पृच्छतु धर्मार्थं बिसस्तैन्यं करोति यः
प्रतिश्रुत्य न यो दद्याद्ब्राह्मणाय गवादिकम् -
नारी दुष्टसमाचारा बिसस्तैन्यं करोति या
साधुद्वेषपरा चैव बिसस्तैन्यं करोति या
पशुमुख उवाच स्वामिद्रोहरतो नित्यं स भूयात्पापकृन्नरः ६.३२.
सत्यं वदतु चाजस्रं बिसस्तैन्यं करोति यः
बिसस्तैन्यं हि चास्माकं तन्नूनं भवता कृतम्
धर्मान्वै श्रोतुकामेन मां जानीत पुरंदरम्