यस्तां पश्यति चैत्रस्य चतुर्द्दश्यां सिते नृप
किं व्रतैर्नियमैर्वापि दानैर्दत्ते नराधिप
तत्रैव पादुके दिव्ये तया न्यस्ते नराधिप सर्वान्कामानवाप्नोति इह लोके परत्र च
कस्माच्च कारणाद्ब्रूहि सर्वं विस्तरतो मम
प्राप्नुवंति परां सिद्धिं द्विविधां धर्मकारिणः
एतस्मिन्नेव काले तु यज्ञदानादिकाः क्रियाः
शून्यास्ते नरकाः सर्वे संबभूवुर्यमस्य ये 7.3.22.
अथ सर्वे नृपश्रेष्ठ देवास्तत्र समागताः
मर्त्यलोके वयं तेन कर्मणातीव पीडिताः
दृष्ट्वा त्वां देवि पाप्मानः सिद्धिं यांति सपूर्वजाः
न निष्क्रामति दैत्यश्च बाष्कलिस्त्वं तथा कुरु
मुक्त्वा स्वे पादुके तत्र कृत्वा चाश्मसमुद्भवे
विन्यस्ते पादुके तस्य रक्षार्थं बाष्कलेः सुराः
मत्पादुकाभराक्रांतो न स दैत्यः सुरोत्तमाः
एतच्छास्त्रं मया कृत्स्नं पादुकार्थं विनिर्मितम्
शास्त्रमार्गेण चानेन भक्त्या यः पादुके मम
चैत्रशुक्लचतुर्द्दश्यामहमत्रार्बुदे सदा ॥ 7.3.22.
पर्वतोऽयं ममाभीष्टो न च त्यक्तुं मनो दधे
स्तूयमाना ययौ स्वर्गं मुक्त्वा ते पादुके शुभे
अद्यापि सिद्धिमायांति योगिनो ध्यानतत्पराः
एतत्ते सर्वमाख्यातं यन्मां त्व परिपृच्छसि
यस्त्वेतत्पठते भक्त्या श्लाघते वाऽथ यो नरः
यत्ख्यातिमगमत्पूर्वं सकाशाद्दाशवर्गतः
पुराऽऽसीद्रजको नाम्ना शमिलाक्षो महीपते
अथासौ भयमापन्नो ज्ञात्वा वस्त्रविडंबनम्
अथ तस्य सुता राजन्दाशकन्यासखी शुभा
तस्यै निवेदयामास भयं वस्त्रसमुद्भवम्
दाशकन्यापि दुःखेन तस्या दुःखसमन्विता
ध्रुवं तेन कृतेनैव निर्भयं ते च ते पितुः
अत्रास्ति निर्झरं सुभ्रूरर्बुदे वरवर्णिनि