पश्चात्तपश्चरिष्यामो महामांससमुद्भवम्
ग्राह्यो मत्तस्ततः सर्वैर्नात्र कार्या विचारणा
स दूराद्ब्राह्मणैस्त्याज्यो विशेषात्कृतिभिर्नृप
दशसूनासमश्चक्री दशचक्रिसमो ध्वजी
दशसूनासहस्रेण तुल्यो राजप्रतिग्रहः
रौरवादिषु सर्वेषु नरकेषु स पच्यते
वयमन्यत्र यास्यामो ग्रहीष्यामो न ते धनम्
परित्यज्य कुमारं तं मृतं तमपि भूमिपम्
सोऽपि राजा ततस्तैस्तु भर्त्सितोऽतिरुषान्वितः ६.३२.
ततः सुवर्णपूर्णानि विधायोदुम्बराणि च
उदुम्बराणि संदृष्ट्वा जगृहुः क्षुधयार्दिताः
अथ तानि समालक्ष्य गुरूणि मुनिसत्तमाः
अत्रिरुवाच नास्माकं मुनयोऽज्ञानं नास्माकं गृहबुद्धयः
तस्मादेतानि संत्यज्य हेमगर्भाणि दूरतः
सार्वभौमो महीपाल एकोऽन्यश्च निरीहकः
धर्मार्थमपि विप्राणां संचयोऽर्थस्य गर्हितः
त्यजतः संचयान्सर्वान्यांति हानिमुपद्रवाः
निर्धनत्वं तथा राज्यं तुलायां धारयेद्बुधः
अर्थैश्वर्यविमूढात्मा श्रेयसा मुच्यते हि सः ॥ ६.३२.
अर्थसंपद्विमोहाय विमोहो नरकाय च
योर्थेन साध्यते धर्मः क्षयिष्णुः स प्रकीर्तितः
चक्षुः श्रोत्रे तथा पुंसस्तृष्णैका तरुणायते
सूच्या सूत्रं यथा वस्त्रं संचारयति सूचिका
यथा शृंगं हि कायेन वर्द्धमानेन वर्धते। तद्वत्तृष्णापि वित्तेन वर्द्धमानेन वर्द्धते
अनंतपारा दुष्पूरा तृष्णा दुःखशतावहा
गौतम उवाच सर्वोपीन्द्रियलौल्येन संकटे भ्रमति द्विजाः
सर्वत्र संपदस्तस्य संतुष्टं यस्य मानसम्
संतोषामृततृप्तानां यत्सुखं शांतचेतसाम्
असंतोषः परं दुःखं संतोषः परमं सुखम् ६.३२.
तथान्यो जायते पुंसस्तत्क्षणादेव कल्पितः