दृश्यते चैव यत्रैव सस्यं वापि कथंचन
एवमन्नक्षये जाते पीडिते धरणीतले
अत्रिश्चैव वसिष्ठश्च कश्यपः सुमहातपाः कौशिको जमदग्निश्च तथैवारुंधती सती
अथ तेषां समस्तानां चंडाभूत्परिचारिका
ततस्ते विषयं प्राप्ता वृषादर्भिमहीपतेः
ततस्तैः पतितो भूमौ दृष्टो मृतकुमारकः
अपचन्यावदग्नौ तं क्षुधया परिपीडिताः
राक्षसानामयं धर्मो महामांसस्य भक्षणम्
सोऽहं सस्यं प्रदास्यामि ग्रामान्व्रीहीन्यवानपि ६.३२.
प्रतिग्रहस्य भूपाला दापत्कालेऽपि नो नृप
पश्चात्तपश्चरिष्यामो महामांससमुद्भवम्
ग्राह्यो मत्तस्ततः सर्वैर्नात्र कार्या विचारणा
स दूराद्ब्राह्मणैस्त्याज्यो विशेषात्कृतिभिर्नृप
दशसूनासमश्चक्री दशचक्रिसमो ध्वजी
दशसूनासहस्रेण तुल्यो राजप्रतिग्रहः
रौरवादिषु सर्वेषु नरकेषु स पच्यते
वयमन्यत्र यास्यामो ग्रहीष्यामो न ते धनम्
परित्यज्य कुमारं तं मृतं तमपि भूमिपम्
सोऽपि राजा ततस्तैस्तु भर्त्सितोऽतिरुषान्वितः ६.३२.
ततः सुवर्णपूर्णानि विधायोदुम्बराणि च
उदुम्बराणि संदृष्ट्वा जगृहुः क्षुधयार्दिताः
अथ तानि समालक्ष्य गुरूणि मुनिसत्तमाः
अत्रिरुवाच नास्माकं मुनयोऽज्ञानं नास्माकं गृहबुद्धयः
तस्मादेतानि संत्यज्य हेमगर्भाणि दूरतः
सार्वभौमो महीपाल एकोऽन्यश्च निरीहकः
धर्मार्थमपि विप्राणां संचयोऽर्थस्य गर्हितः
त्यजतः संचयान्सर्वान्यांति हानिमुपद्रवाः
निर्धनत्वं तथा राज्यं तुलायां धारयेद्बुधः
अर्थैश्वर्यविमूढात्मा श्रेयसा मुच्यते हि सः ॥ ६.३२.
अर्थसंपद्विमोहाय विमोहो नरकाय च