सप्तर्षीणां सुविख्यात आश्रमः सर्वकामदः
तत्र श्रावणमासस्य पंचदश्यां समाहितः
कन्दमूलफलैः शाकैर्यस्तत्र श्राद्धमाचरेत्
पंचम्यां शुक्लपक्षे तु मासि भाद्रपदे द्विजाः विधिनानेन विप्रेन्द्राः सर्वानेव यथाक्रमम्
ॐ अत्रये नमः ॐ कश्यपाय नमः ॐ गौतमाय नमः ॐ जमदग्नये नमः गृह्णंत्वर्घं मया दत्तमृषयः सर्वकामदाः
विस्तरात्सूतज ब्रूहि परं कौतूहलं हि नः
सर्वोषधिक्षयो जातस्ततो लोकाः क्षयार्दिताः
अस्थिशेषा निरुत्साहास्त्यक्तधर्मव्रतक्रियाः
त्यजंति मातरः पुत्रान्कलत्राणि तथा नराः
संत्यक्तान्यग्निहोत्राणि ब्राह्मणैर्याजकैरपि ६.३२.
दृश्यते चैव यत्रैव सस्यं वापि कथंचन
एवमन्नक्षये जाते पीडिते धरणीतले
अत्रिश्चैव वसिष्ठश्च कश्यपः सुमहातपाः कौशिको जमदग्निश्च तथैवारुंधती सती
अथ तेषां समस्तानां चंडाभूत्परिचारिका
ततस्ते विषयं प्राप्ता वृषादर्भिमहीपतेः
ततस्तैः पतितो भूमौ दृष्टो मृतकुमारकः
अपचन्यावदग्नौ तं क्षुधया परिपीडिताः
राक्षसानामयं धर्मो महामांसस्य भक्षणम्
सोऽहं सस्यं प्रदास्यामि ग्रामान्व्रीहीन्यवानपि ६.३२.
प्रतिग्रहस्य भूपाला दापत्कालेऽपि नो नृप
पश्चात्तपश्चरिष्यामो महामांससमुद्भवम्
ग्राह्यो मत्तस्ततः सर्वैर्नात्र कार्या विचारणा
स दूराद्ब्राह्मणैस्त्याज्यो विशेषात्कृतिभिर्नृप
दशसूनासमश्चक्री दशचक्रिसमो ध्वजी
दशसूनासहस्रेण तुल्यो राजप्रतिग्रहः
रौरवादिषु सर्वेषु नरकेषु स पच्यते
वयमन्यत्र यास्यामो ग्रहीष्यामो न ते धनम्
परित्यज्य कुमारं तं मृतं तमपि भूमिपम्
सोऽपि राजा ततस्तैस्तु भर्त्सितोऽतिरुषान्वितः ६.३२.
ततः सुवर्णपूर्णानि विधायोदुम्बराणि च