ततो नागह्रदे तस्मिन्स कृत्वा निजमन्दिरम्
तत्रस्थस्य निरस्तस्य ये पुत्राः स्युर्द्विजोत्तमाः
एतद्वः सर्वमाख्यातं नागतीर्थसमुद्भवम् ६.३१.
यश्चैतत्पठते भक्त्या संप्राप्ते पंचमीदिने
तथा विमुच्यते पापाद्भक्षजातान्न संशयः
तस्मात्सर्वप्रयत्नेन नागतीर्थमनुत्तमम्
श्राद्धकाले तु संप्राप्ते यश्चैतत्पठते द्विजः
तथा ये कीर्तिता दोषाः श्राद्धे द्रव्यसमुद्भवाः
ते सर्वे नाशमायांति कीर्त्यमाने समाहितैः
तथा विनिहता गोभिर्ब्राह्मणैः श्वापदैरपि
सप्तर्षीणां सुविख्यात आश्रमः सर्वकामदः
तत्र श्रावणमासस्य पंचदश्यां समाहितः
कन्दमूलफलैः शाकैर्यस्तत्र श्राद्धमाचरेत्
पंचम्यां शुक्लपक्षे तु मासि भाद्रपदे द्विजाः विधिनानेन विप्रेन्द्राः सर्वानेव यथाक्रमम्
ॐ अत्रये नमः ॐ कश्यपाय नमः ॐ गौतमाय नमः ॐ जमदग्नये नमः गृह्णंत्वर्घं मया दत्तमृषयः सर्वकामदाः
विस्तरात्सूतज ब्रूहि परं कौतूहलं हि नः
सर्वोषधिक्षयो जातस्ततो लोकाः क्षयार्दिताः
अस्थिशेषा निरुत्साहास्त्यक्तधर्मव्रतक्रियाः
त्यजंति मातरः पुत्रान्कलत्राणि तथा नराः
संत्यक्तान्यग्निहोत्राणि ब्राह्मणैर्याजकैरपि ६.३२.
दृश्यते चैव यत्रैव सस्यं वापि कथंचन
एवमन्नक्षये जाते पीडिते धरणीतले
अत्रिश्चैव वसिष्ठश्च कश्यपः सुमहातपाः कौशिको जमदग्निश्च तथैवारुंधती सती
अथ तेषां समस्तानां चंडाभूत्परिचारिका
ततस्ते विषयं प्राप्ता वृषादर्भिमहीपतेः
ततस्तैः पतितो भूमौ दृष्टो मृतकुमारकः
अपचन्यावदग्नौ तं क्षुधया परिपीडिताः
राक्षसानामयं धर्मो महामांसस्य भक्षणम्
सोऽहं सस्यं प्रदास्यामि ग्रामान्व्रीहीन्यवानपि ६.३२.
प्रतिग्रहस्य भूपाला दापत्कालेऽपि नो नृप