अथ ते विस्मिताः सर्वे देवशर्मपुरःसराः
पृष्टश्च किमिदं कर्म तवांत्यजजनोचितम् तत्किं शापपरिभ्रष्टस्त्वं कश्चिद्ब्राह्मणोत्तमः
येनैवं कुरुषे कर्म गर्हितं चांत्यजैरपि विष्णुसेन इति ख्यातो हैहयान्वयसंभवः
सोहमाराधनार्थाय त्वस्मिन्स्थान उपागतः
कृतांजलिपुटो भूत्वा तमुवाच महीपतिम्॥६.३१.
नास्ति मे किञ्चिदप्राप्तं तथाऽसाध्यं महीपते
सोऽत्र नागह्रदे श्राद्धे कृते मुक्तिमवाप्नुयात्
तस्मात्तत्तारणार्थाय विप्रकृत्यं समाचर
देवशर्मोवाच एवं कुरु नृपश्रेष्ठ श्राद्धेऽहं ते पितुः स्वयम्
प्रोचुर्नैतत्प्रयुक्तं ते श्राद्धं भोक्तुं विगर्हितम्
तस्माद्यदि भवानस्य श्राद्धे भोक्ता ततः स्वयम्
मयैवास्य प्रतिज्ञातं भोक्तुं श्राद्धे महीपतेः
एवमुक्त्वा स विप्रेंद्रस्तेनैव सहितस्तदा
भुक्तमात्रे ततस्तस्मिन्वागुवाचाशरीरिणी ६.३१.
प्रेतभावाद्विनिर्मुक्तः पुत्राहं त्वत्प्रभावतः
तत्कृत्वा नृपतिर्हृष्टस्तं प्रणम्य द्विजोत्तमम्
अस्ति माहिष्मतीनाम नगरी नर्मदातटे
अहं यच्छामि ते ब्रह्मन्समस्तविषयान्विताम्
स्वं देशं हर्षसंयुक्तः कृतकृत्यो द्विजोत्तमाः
सोऽपि सर्वैः परित्यक्तो ब्राह्मणैः पुरवासिभिः
ततो नागह्रदे तस्मिन्स कृत्वा निजमन्दिरम्
तत्रस्थस्य निरस्तस्य ये पुत्राः स्युर्द्विजोत्तमाः
एतद्वः सर्वमाख्यातं नागतीर्थसमुद्भवम् ६.३१.
यश्चैतत्पठते भक्त्या संप्राप्ते पंचमीदिने
तथा विमुच्यते पापाद्भक्षजातान्न संशयः
तस्मात्सर्वप्रयत्नेन नागतीर्थमनुत्तमम्
श्राद्धकाले तु संप्राप्ते यश्चैतत्पठते द्विजः
तथा ये कीर्तिता दोषाः श्राद्धे द्रव्यसमुद्भवाः
ते सर्वे नाशमायांति कीर्त्यमाने समाहितैः
तथा विनिहता गोभिर्ब्राह्मणैः श्वापदैरपि