धिग्धिक्पापसमाचार क्षत्रियापसदात्मक
तस्माद्गच्छ द्रुतं यावन्न कश्चिच्छपते द्विजः
चमत्कारपुरात्तस्माद्वैलक्ष्यं परमं गतः
चिन्तयामास राजेंद्र स्मृत्वावस्थां पितुश्च ताम्
ततः स सचिवान्सर्वान्प्रेषयित्वा गृहं प्रति ६.३१.
स ज्ञात्वा नगरे तत्र ब्राह्मणं शंसितव्रतम्
देवशर्माभिधानं तु शरणागतवत्सलम्
ततस्तु प्रातरुत्थाय कृत्वांत्यजमयं वपुः
अथ यः कुरुते कर्म तत्र विष्ठाप्रशोधनम्
कुतस्त्वमिह संप्राप्तो मद्वृत्तेरुपघातकृत्
तस्यैवं वदतोऽप्याशु बलात्स पृथिवीपतिः
ततः संवत्सरस्यांते चंडालेन द्विजोत्तमाः
स्वामिंस्तव कुलेप्येवं गूथाशोधनकर्मकृत्
अथ श्रुत्वा च तद्वाक्यं स प्राह द्विजसत्तमः अधिकारस्त्वयात्मीयस्तथा कार्यो यथा पुरा
तदान्यदिवसे प्राप्ते सोंऽत्यजः कोपसंयुतः ६.३१.
शस्त्रोद्यतकरं दृष्ट्वा प्रहारेकृतनिश्चयम्
ततस्तस्य विनिष्क्रांते लोचने तत्क्षणाद्द्विजाः
तं श्रुत्वा निहतं तेन चंडालं निजकिंकरम्
ततः पुत्रैश्च पौत्रैश्च सहितोऽन्यैश्च बन्धुभिः
सोऽपि संताड्यमानस्तु प्रहारैर्जर्जरीकृतः
अथ ते विस्मिताः सर्वे देवशर्मपुरःसराः
पृष्टश्च किमिदं कर्म तवांत्यजजनोचितम् तत्किं शापपरिभ्रष्टस्त्वं कश्चिद्ब्राह्मणोत्तमः
येनैवं कुरुषे कर्म गर्हितं चांत्यजैरपि विष्णुसेन इति ख्यातो हैहयान्वयसंभवः
सोहमाराधनार्थाय त्वस्मिन्स्थान उपागतः
कृतांजलिपुटो भूत्वा तमुवाच महीपतिम्॥६.३१.
नास्ति मे किञ्चिदप्राप्तं तथाऽसाध्यं महीपते
सोऽत्र नागह्रदे श्राद्धे कृते मुक्तिमवाप्नुयात्
तस्मात्तत्तारणार्थाय विप्रकृत्यं समाचर
देवशर्मोवाच एवं कुरु नृपश्रेष्ठ श्राद्धेऽहं ते पितुः स्वयम्
प्रोचुर्नैतत्प्रयुक्तं ते श्राद्धं भोक्तुं विगर्हितम्