ततस्तस्य सुतोऽभीष्टस्तस्योद्देशेन कृत्स्नशः
गंगायामस्थिपातं च कृत्वा श्राद्धानि षोडश
अथ स्वप्नांतरे प्राप्तः पिता तस्य स भूपतिः
सर्पमृत्योः सकाशान्मे प्रेतत्वं पुत्र संस्थितम्
चमत्कारपुरं क्षेत्रं तस्मात्त्वं गच्छ सत्वरम् ६.३१.
येन संजायते मोक्षः प्रेतत्वा द्दारुणान्मम
प्रेतरूपस्य दुःखार्तस्तत्तीर्थं सत्वरं गतः
स्नात्वा श्रद्धासमोपेतः संनिवेश्य पुरोधसम्
प्रे तरूपेण दुःखार्तो वाक्यमेतदुवाच ह
फलं श्राद्धस्य चात्र त्वं कारणं शृणु पुत्रक
क्षेत्रेऽपि गर्हिताः श्राद्धे येऽन्यत्र व्यंगकादयः
तथान्यदपि विप्रार्हं कर्म यज्ञसमुद्भवम् परोक्षे वापि संपूर्णं वृथा संजायते स्फुटम्
तस्मादस्मात्पुराद्विप्रान्समानीय ततः परम्
अथासौ प्रातरुत्थाय स्मरमाणः पितुर्वचः
ततश्चान्वेषयामास श्राद्धार्हान्ब्राह्मणान्नृपः ६.३१.
न तत्र दुःखितः कश्चिद्दरिद्रोऽपि न दुःखितः
स्थानेस्थाने महानादा उत्सवाश्च गृहेगृहे
श्रूयंते याज्ञिकानां च यज्ञकर्मसमुद्भवाः न मृत्युः कस्यचित्तत्र पुरे ब्राह्मण सेविते
यथर्तुवर्षी पर्जन्यः सस्यानि गुणवन्ति च
यंयं प्रार्थयते विप्रं स श्राद्धार्थं महीपतिः
धिग्धिक्पापसमाचार क्षत्रियापसदात्मक
तस्माद्गच्छ द्रुतं यावन्न कश्चिच्छपते द्विजः
चमत्कारपुरात्तस्माद्वैलक्ष्यं परमं गतः
चिन्तयामास राजेंद्र स्मृत्वावस्थां पितुश्च ताम्
ततः स सचिवान्सर्वान्प्रेषयित्वा गृहं प्रति ६.३१.
स ज्ञात्वा नगरे तत्र ब्राह्मणं शंसितव्रतम्
देवशर्माभिधानं तु शरणागतवत्सलम्
ततस्तु प्रातरुत्थाय कृत्वांत्यजमयं वपुः
अथ यः कुरुते कर्म तत्र विष्ठाप्रशोधनम्
कुतस्त्वमिह संप्राप्तो मद्वृत्तेरुपघातकृत्