तस्य वंशेऽपि सर्पाणां न भयं स्यान्न किल्बिषम्
अपुत्रस्तत्र यः श्राद्धं करोति सुतवांछया
तथा वंध्या च या नारी पंचम्यां भास्करोदये सा सद्यो लभते पुत्रं स्ववंशोद्धरणक्षमम्
सर्वरोगविनिर्मुक्तं सुरूपं विनयान्वितम्
ततः पूजयते नागाञ्छ्रावणे पंचमीदिने ६.३१.
येषां मृत्युर्मनुष्याणां जायते सर्पभक्षणात्
यावन्न क्रियते श्राद्धं तस्मिंस्तीर्थे द्विजोत्तमाः श्राद्धं कार्यं प्रयत्नेन तस्मिंस्तीर्थेऽहिसंभवे
अत्र वः कीर्तयिष्यामि पुरावृत्तां कथां शुभाम्
इन्द्रसेनो महीपालः पुरासीद्रिपुदर्पहा
ततः स दैवयोगेन प्रसुप्तः शयने शुभे वियुक्तश्चैव सहसा जीवितव्येन तत्क्षणात्
ततस्तस्य सुतोऽभीष्टस्तस्योद्देशेन कृत्स्नशः
गंगायामस्थिपातं च कृत्वा श्राद्धानि षोडश
अथ स्वप्नांतरे प्राप्तः पिता तस्य स भूपतिः
सर्पमृत्योः सकाशान्मे प्रेतत्वं पुत्र संस्थितम्
चमत्कारपुरं क्षेत्रं तस्मात्त्वं गच्छ सत्वरम् ६.३१.
येन संजायते मोक्षः प्रेतत्वा द्दारुणान्मम
प्रेतरूपस्य दुःखार्तस्तत्तीर्थं सत्वरं गतः
स्नात्वा श्रद्धासमोपेतः संनिवेश्य पुरोधसम्
प्रे तरूपेण दुःखार्तो वाक्यमेतदुवाच ह
फलं श्राद्धस्य चात्र त्वं कारणं शृणु पुत्रक
क्षेत्रेऽपि गर्हिताः श्राद्धे येऽन्यत्र व्यंगकादयः
तथान्यदपि विप्रार्हं कर्म यज्ञसमुद्भवम् परोक्षे वापि संपूर्णं वृथा संजायते स्फुटम्
तस्मादस्मात्पुराद्विप्रान्समानीय ततः परम्
अथासौ प्रातरुत्थाय स्मरमाणः पितुर्वचः
ततश्चान्वेषयामास श्राद्धार्हान्ब्राह्मणान्नृपः ६.३१.
न तत्र दुःखितः कश्चिद्दरिद्रोऽपि न दुःखितः
स्थानेस्थाने महानादा उत्सवाश्च गृहेगृहे
श्रूयंते याज्ञिकानां च यज्ञकर्मसमुद्भवाः न मृत्युः कस्यचित्तत्र पुरे ब्राह्मण सेविते
यथर्तुवर्षी पर्जन्यः सस्यानि गुणवन्ति च
यंयं प्रार्थयते विप्रं स श्राद्धार्थं महीपतिः