तत्र पूर्वं तपस्तप्तं मातुः शापप्रपीडितैः
कम्बलाश्वतरौ नागौ तथा ख्यातौ धरातले
अनंतो वासुकिश्चैव तक्षकश्च महावलः
ऐरावतस्तथा शंखः पुण्डरीको महाविषः
एतेषां पुत्रपौत्राश्च तेषामपि विभूतिभिः
अथ ते कुटिला दुष्टा भक्षयंति सदा जनान्
ततः प्रजा इमाः सर्वा ब्रह्माणं शरणं गताः
यावन्न शून्यतां याति सकलं वसुधातलम् ६.३१.
अथ तानब्रवीद्ब्रह्मा शेषाद्यान्नवनायकान्
अथ तेषां बहुत्वाच्च नैव रक्षा प्रजायते
ततः कोपपरीतात्मा तानाहूय कुलाधिपान्
भक्षयंति यतः सर्पा अपराधं विना प्रजाः
तच्छ्रुत्वा वेपमानास्ते सर्पाणां नवनायकाः
ब्रह्मोवाच॥ यदि नाम मया सृष्टा यूयं दिष्ट्या विषोल्बणाः
अपराधं विना कस्माद्भक्षयध्व इमाः प्रजाः ॥ ६.३१.
अथवा संप्रयच्छस्व स्थानं मानुषवर्जितम्
पारिक्षितमखे तस्मिन्सर्पाणां चित्रभानुना
यथा न संततिच्छेदो जायते प्रपितामह
स संतानकृते भार्यां भूमावन्वेषयिष्यति
भाविनी च भवद्वंशे जरत्कन्या सुशोभना
ताभ्यां यो भविता पुत्रः स शेषान्रक्षयिष्यति
सुतलं नितलं चैव तथैव वितलं च यत्
मया दत्तेऽतिरम्ये च सर्वभोगसमन्विते
तत्र भुंजथ सद्भोगा न्गत्वाऽऽशु मम शासनात्
शक्नुमो वस्तुमुर्व्यां नस्तस्मात्स्थानं प्रदर्शय ६.३१.
पंचमी शेषकालस्तु नेयस्तत्रं रसातले
तत्रागतैर्न हंतव्या मानवा दोषवर्जिताः
चमत्कारपुरे क्षेत्रे मया दत्ता स्थितिः सदा
पातालं कुलमुख्याश्च तस्मिन्क्षेत्रे व्यवस्थिताः
तत्र श्रावणपंचम्यां यस्तान्पूजयते नरः