ततश्चिन्ता प्रपन्नः स गत्वा देवपुरोहितम्
भगवंश्चानपत्यस्य वार्द्धकं मे समागतम्
तीर्थयात्रां व्रतं वापि शांतिकं वा द्विजोत्तम
बृहस्पतिश्चिरं ध्यात्वा सिद्धं प्राह ततः परम्
ततः प्राप्स्यसि सत्पुत्रं वंशोद्धारक्षमं शुभम्
ततस्तत्क्षेत्रमासाद्य स सिद्धः श्रद्धयान्वितः
ततश्चाराधयामास दिवानक्तमतंद्रितः
चांद्रायणैस्तथा कृच्छ्रैः पाराकैर्द्विजसत्तमाः ६.३०.
ततो वर्षसहस्राभ्यां तस्य तुष्टो महेश्वरः
हंसाद्य तव तुष्टोऽहं तस्मात्प्रार्थय वांछितम्
तस्मात्त्वं देहि मे पुत्रान्वंशोद्धारक्ष मान्विभो
त्वया चैव सदा लिंगे स्थेयमत्र सुरोत्तम
यो मामत्र स्थितं मर्त्यः पूजयिष्यति भक्तितः
यो मे लिंगस्य याम्याशां स्थित्वा मंत्रं जपिष्यति
एवमुक्त्वा महादेवस्ततश्चादर्शनं गतः
तस्मात्सर्वप्रयत्नेन तल्लिंगं यत्नतो द्विजाः
षडक्षरेण मन्त्रेण कीर्तनीयं च शक्तितः ६.३०.
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सिद्धेश्वरोत्पत्तिवृत्तान्तवर्णनंनाम त्रिंशोऽध्यायः
यत्र स्नातस्य सर्पाणां न भयं जायते क्वचित्
तत्र श्रावणपञ्चम्यां यो नरः स्नानमाचरेत्
तत्र पूर्वं तपस्तप्तं मातुः शापप्रपीडितैः
कम्बलाश्वतरौ नागौ तथा ख्यातौ धरातले
अनंतो वासुकिश्चैव तक्षकश्च महावलः
ऐरावतस्तथा शंखः पुण्डरीको महाविषः
एतेषां पुत्रपौत्राश्च तेषामपि विभूतिभिः
अथ ते कुटिला दुष्टा भक्षयंति सदा जनान्
ततः प्रजा इमाः सर्वा ब्रह्माणं शरणं गताः
यावन्न शून्यतां याति सकलं वसुधातलम् ६.३१.
अथ तानब्रवीद्ब्रह्मा शेषाद्यान्नवनायकान्
अथ तेषां बहुत्वाच्च नैव रक्षा प्रजायते