एवमुक्त्वा महात्मा स पश्यतो मम सूतज
गन्धर्वैर्गीयमानस्तु स्तूयमानश्च किन्नरैः
तस्मिन्गते तदा स्वर्गं दुःखं मे समुपस्थितम्
ततोऽहं कृतवांस्तत्र विप्रलापाननेकशः
अहो मया नृशंसेन बहवः प्राणिनो हताः
सोऽहं हिंसां परित्यज्य चरिष्यामि महत्तपः
यत्किंचित्त्रिषु लोकेषु प्रार्थयंति नराः सुखम्
अधुनैकोऽहमेकाहमेकैकस्मिन्वनस्पतौ
पांसुना समवच्छन्नः शून्यागारप्रतिश्रयः ६.२९.
एवं विलप्य यत्नेन मया सूतकुलोद्वह
षडक्षरस्य मंत्रस्य अयुतं प्रजपाम्यहम्
तत्प्रभावेन मे स्थैर्यं संजातं यौवनोद्भवम्
सिद्धेश्वरं प्रयास्यामि द्वापरांते ह्यवस्थिते
एतत्ते सर्वमाख्यातं मया सूतज मोक्षदम्
यश्चैतच्छृणुयान्नित्यं सम्यक्छ्रद्धासमन्वितः
तस्मात्त्वं हि महाभाग मन्त्रमेनं सदा जप
सूत उवाच एतच्छ्रुतं मया पूर्वं सकाशात्तस्य सद्गुरोः
धन्यं यशस्यमायुष्यं शत्रुपक्षक्षयावहम्
एतत्सर्वं समाचक्ष्व विस्तरात्सूतनन्दन
अनपत्यतया तस्य कालश्चक्राम भूरिशः
ततश्चिन्ता प्रपन्नः स गत्वा देवपुरोहितम्
भगवंश्चानपत्यस्य वार्द्धकं मे समागतम्
तीर्थयात्रां व्रतं वापि शांतिकं वा द्विजोत्तम
बृहस्पतिश्चिरं ध्यात्वा सिद्धं प्राह ततः परम्
ततः प्राप्स्यसि सत्पुत्रं वंशोद्धारक्षमं शुभम्
ततस्तत्क्षेत्रमासाद्य स सिद्धः श्रद्धयान्वितः
ततश्चाराधयामास दिवानक्तमतंद्रितः
चांद्रायणैस्तथा कृच्छ्रैः पाराकैर्द्विजसत्तमाः ६.३०.
ततो वर्षसहस्राभ्यां तस्य तुष्टो महेश्वरः
हंसाद्य तव तुष्टोऽहं तस्मात्प्रार्थय वांछितम्