न हि मांसं तृणात्काष्ठादुपलादपि जायते
एतदेव हि दृष्टांतं मांसस्य परिवर्जने
आत्मौपम्येन भूतानि तस्मात्सर्वाणि पंडितैः
हंता चैवानुमंता च विशस्ता क्रयविक्रयी
धनेन क्रयकृद्धंति भक्षणेन च खादकः
कर्मणा मनसा वाचा यो हिनस्ति न किंचन
शाकमूलफलाहारो ब्रह्मचर्यपरायणः
एको वर्षशतं साग्रं तपस्तपति दुस्तरम्
यंयं कामयते कामं दुष्प्रापमपि मानवः ६.२९.
कामगेन विमानेन दिव्यस्त्रीशतसेवितः
एवमुक्त्वा महात्मा स पश्यतो मम सूतज
गन्धर्वैर्गीयमानस्तु स्तूयमानश्च किन्नरैः
तस्मिन्गते तदा स्वर्गं दुःखं मे समुपस्थितम्
ततोऽहं कृतवांस्तत्र विप्रलापाननेकशः
अहो मया नृशंसेन बहवः प्राणिनो हताः
सोऽहं हिंसां परित्यज्य चरिष्यामि महत्तपः
यत्किंचित्त्रिषु लोकेषु प्रार्थयंति नराः सुखम्
अधुनैकोऽहमेकाहमेकैकस्मिन्वनस्पतौ
पांसुना समवच्छन्नः शून्यागारप्रतिश्रयः ६.२९.
एवं विलप्य यत्नेन मया सूतकुलोद्वह
षडक्षरस्य मंत्रस्य अयुतं प्रजपाम्यहम्
तत्प्रभावेन मे स्थैर्यं संजातं यौवनोद्भवम्
सिद्धेश्वरं प्रयास्यामि द्वापरांते ह्यवस्थिते
एतत्ते सर्वमाख्यातं मया सूतज मोक्षदम्
यश्चैतच्छृणुयान्नित्यं सम्यक्छ्रद्धासमन्वितः
तस्मात्त्वं हि महाभाग मन्त्रमेनं सदा जप
सूत उवाच एतच्छ्रुतं मया पूर्वं सकाशात्तस्य सद्गुरोः
धन्यं यशस्यमायुष्यं शत्रुपक्षक्षयावहम्
एतत्सर्वं समाचक्ष्व विस्तरात्सूतनन्दन
अनपत्यतया तस्य कालश्चक्राम भूरिशः