अथाहमब्रुवं तं च तच्छ्रुत्वा तस्य जल्पितम्
मन्यते वृद्धलोकानामेतद्वाक्यं श्रुतं मया
प्रवदंति तथा वैद्या वैद्यशास्त्रविचक्षणाः
तदत्र विषये ब्रूहि परं निःश्रेयसं वचः
अथ मां स पुनः प्राह वद मैवं द्विजोत्तम
अहो शोच्यतमा लोके पापात्मानः सुनिर्दयाः
न मांसमायुषो हेतुरारोग्यस्य बलस्य वा
मांसाशिनोऽपि दृश्यंते रोगार्ता दुर्बलास्तथा
अमांसादा अपि क्ष्मायां दृश्यंते रोगवर्जिताः ६.२९.
यो भक्षयति मांसानि सत्त्वानां जीवितैषिणाम्
न हि मांसं तृणात्काष्ठादुपलादपि जायते
एतदेव हि दृष्टांतं मांसस्य परिवर्जने
आत्मौपम्येन भूतानि तस्मात्सर्वाणि पंडितैः
हंता चैवानुमंता च विशस्ता क्रयविक्रयी
धनेन क्रयकृद्धंति भक्षणेन च खादकः
कर्मणा मनसा वाचा यो हिनस्ति न किंचन
शाकमूलफलाहारो ब्रह्मचर्यपरायणः
एको वर्षशतं साग्रं तपस्तपति दुस्तरम्
यंयं कामयते कामं दुष्प्रापमपि मानवः ६.२९.
कामगेन विमानेन दिव्यस्त्रीशतसेवितः
एवमुक्त्वा महात्मा स पश्यतो मम सूतज
गन्धर्वैर्गीयमानस्तु स्तूयमानश्च किन्नरैः
तस्मिन्गते तदा स्वर्गं दुःखं मे समुपस्थितम्
ततोऽहं कृतवांस्तत्र विप्रलापाननेकशः
अहो मया नृशंसेन बहवः प्राणिनो हताः
सोऽहं हिंसां परित्यज्य चरिष्यामि महत्तपः
यत्किंचित्त्रिषु लोकेषु प्रार्थयंति नराः सुखम्
अधुनैकोऽहमेकाहमेकैकस्मिन्वनस्पतौ
पांसुना समवच्छन्नः शून्यागारप्रतिश्रयः ६.२९.
एवं विलप्य यत्नेन मया सूतकुलोद्वह