किमिंद्रेणाल्पवीर्येण किमन्यैश्च वरानने
तस्य सर्वं यथावाक्यं तेनोक्तं च महीपते
ततः श्रुत्वा स्मितं कृत्वा चिंतयामास भामिनी
कथमस्य मया कार्यो निग्रहो देवताकृते तावत्तत्रागतः शीघ्रं स कामेन परिप्लुतः
अथ दृष्टिनिपातेन सा देवी दानवाधिपम्
ततो जहास सा देवीशनकैर्वृपसत्तम
हस्तिनो हयवर्याश्च पादाताश्च पृथग्विधाः 7.3.22.
तैः सैन्यं दानवेशस्य सर्वं शस्त्रैर्निपातितम्
हते सैन्य बले तस्मिन्निंद्राद्यास्त्रिदिवौकसः नास्मिञ्जीवति नो राज्यं स्वर्गे देवि भविष्यति
पर्वतस्य महाशृंगं दत्त्वा तस्योपरि स्वयम्
निविष्टा सा जगन्माता श्रीमाता कामरूपिणी तत्रैव वसते साक्षान्नृणां कामप्रदायिनी
एतस्मिन्नेव काले तु सर्वे देवाः सवासवाः
प्रसन्नाऽभूत्ततो देवी तेषां तत्र नराधिप गत्वा स्थानं स्वकं सर्वे परिपांतु गतव्यथाः
वरं वरय देवेन्द्र ब्रूहि यत्ते मनोगतम्
इन्द्र उवाच यदि तुष्टासि मे देवि शाश्वते भक्तिवत्सले
प्रशास्मि राज्यं देवेशि शाश्वते भक्तवत्सले
हरेण निर्मितः पूर्वं येन तिष्ठति निश्चलः 7.3.22.
अत्र त्वां पूजयिष्यामो वयं सर्वे समेत्य च
हृष्टस्त्रिविष्टपं प्राप्तो देव्यास्तस्याः प्रभावतः
सापि तत्र स्थिता देवी देवानां हितकाम्यया
यस्तां पश्यति चैत्रस्य चतुर्द्दश्यां सिते नृप
किं व्रतैर्नियमैर्वापि दानैर्दत्ते नराधिप
तत्रैव पादुके दिव्ये तया न्यस्ते नराधिप सर्वान्कामानवाप्नोति इह लोके परत्र च
कस्माच्च कारणाद्ब्रूहि सर्वं विस्तरतो मम
प्राप्नुवंति परां सिद्धिं द्विविधां धर्मकारिणः
एतस्मिन्नेव काले तु यज्ञदानादिकाः क्रियाः
शून्यास्ते नरकाः सर्वे संबभूवुर्यमस्य ये 7.3.22.
अथ सर्वे नृपश्रेष्ठ देवास्तत्र समागताः
मर्त्यलोके वयं तेन कर्मणातीव पीडिताः
दृष्ट्वा त्वां देवि पाप्मानः सिद्धिं यांति सपूर्वजाः