तस्माद्गच्छ द्रुतं सर्प स्थानादस्माज्जलाशये
ततोऽहं दुःखसंयुक्तः संप्राप्तोऽत्र जलाशये
त्वत्प्रसादादहं मुक्तः सर्पत्वाद्ब्राह्मणोत्तम
वत्सोनाम न सन्देहः स त्वं यः कीर्तितो मम
ततः प्रोक्तो मया सम्यक्स सर्पो दिव्यरूपधृक्
येन नो जायते दुःखं प्रियलोपसमुद्भवम्
अथोवाच स मां भूयः सोत्सुकः पुरुषोत्तमः
न चैतच्छक्यते वक्तुं विमाने समुपस्थिते
शैवः षडक्षरो मन्त्रो नृणामशुभहारकः ॥ ६.२९.
ततः प्राप्स्यत्यसंदिग्धं यद्यद्वांछसि चेतसा
मया हि सुमहत्पापं सर्वदा समनुष्ठितम्
एको दानानि सर्वाणि यच्छति श्रद्धयान्वितः
सर्वतीर्थाभिषेकं च कुरुतेऽन्यो नरो द्विज
चांद्रायणसहस्रं तु कुरुतेऽन्यो यथोचितम्
वर्षास्वाकाशशायी च हेमंते सलिलाशयः
अन्यः षडक्षरं मन्त्रं शुचिः श्रद्धासमन्वितः
पितृपक्षे सदा चैको गयायां श्राद्धमाचरेत्
गोसहस्रं ददात्येकः कार्तिक्यां ज्येष्ठपुष्करे
संनिहित्यां नरः स्नाति राहुग्रस्ते दिवाकरे ६.२९.
सोमे सोमग्रहेऽन्यस्तु सोमनाथं प्रपश्यति
एकश्चण्डीश्वरं पश्येदयने चोत्तरे नरः
भृगुपातं पतेदेकः केदारं वीक्ष्य भक्तितः
करीषं साधयेदन्यो दत्त्वा सर्वस्वमादितः
सर्व संगपरित्यागं कृत्वैको ज्ञानमाप्नुयात्
एतत्ते परमं गुह्यं मया विप्र प्रकीर्तितम्
तथान्यदपि वक्ष्यामि हितबुद्ध्या द्विजोत्तम
अहिंसा परमो धर्मः सर्ववेदे प्रकीर्तितः
अहिंसकानि भूतानि यो हिनस्ति सुनिर्दयः
चराचराणां भूतानामभयं यः प्रयच्छति ६.२९.
नास्ति भर्गसमो देवो नास्ति गंगासमा नदी