अथ श्रीवर्धनः प्राह प्रणिपत्य निजं गुरुम्
अज्ञानाद्यदिवा ज्ञानान्मया यद्व्याहृतं वचः
न मृषा वचनं प्रोक्तं स्वैरेणापि गुरो मया
पश्चादुदयते सूर्यः शोषं याति महार्णवः
तमुवाच गुरुः शिष्यं स पुनः श्लक्ष्णया गिरा
सदा शिष्यो वयःस्थोपि शासनीयः प्रयत्नतः ॥। किं पुनर्बाल एव त्वं तेन त्वां वच्मि भूरिशः
धर्मं न व्ययते कोऽपि मुनीनां पूर्वसंचितम्
तस्मात्क्षमां पुरस्कृत्य वर्तितव्यं तपस्विभिः
न पापं प्रति पापः स्याद्बुद्धिरेषा सनातनी
दग्धः स दहते भूयो हतमेव निहंति च ६.२९.
उपकारिषु यः साधुः साधुत्वे तस्य को गुणः
एवमुक्त्वा स तं शिष्यं ततो मामिदमब्रवीत्
नान्यथा वचनं भावि मम शिष्यस्य पन्नग
प्रसादं कुरु दीनस्य शापस्याज्ञानिनस्तथा
न तस्य शक्यते कर्तुं संख्या धर्मस्य भद्रक
मुहूर्तमपि यो विघ्नं करोति च महोत्सवे
शैवं षडक्षरं मंत्रं योजपेच्छ्रद्धयान्वितः
दशभिर्दिनजं पापं विंशत्या वत्सरोद्भवम्
तस्मात्त्वं जलमध्यस्थस्तं मंत्रं जप सादरम् ६.२९.
यदा त्वां जलमध्यस्थं वत्सोनाम द्विजो रुषा
तस्माद्गच्छ द्रुतं सर्प स्थानादस्माज्जलाशये
ततोऽहं दुःखसंयुक्तः संप्राप्तोऽत्र जलाशये
त्वत्प्रसादादहं मुक्तः सर्पत्वाद्ब्राह्मणोत्तम
वत्सोनाम न सन्देहः स त्वं यः कीर्तितो मम
ततः प्रोक्तो मया सम्यक्स सर्पो दिव्यरूपधृक्
येन नो जायते दुःखं प्रियलोपसमुद्भवम्
अथोवाच स मां भूयः सोत्सुकः पुरुषोत्तमः
न चैतच्छक्यते वक्तुं विमाने समुपस्थिते
शैवः षडक्षरो मन्त्रो नृणामशुभहारकः ॥ ६.२९.
ततः प्राप्स्यत्यसंदिग्धं यद्यद्वांछसि चेतसा