जलसर्पं समादाय सुदीर्घं भीषणाकृतिम्
ततश्च क्षिप्तवांस्तत्र महाजनसमागमे
तत्रासीत्तापसो नाम्ना सुप्रभः शंसितव्रतः ६.२९.
निष्कंपां सुदृढामृज्वीं नातिस्तब्धां न कुंचिताम्
संपश्यन्नासिकाग्रं स्वं दिशश्चानवलोकयन्
आवर्तपंकजांतःस्थमष्टपत्र मधोमुखम्
पश्यन्पद्मासनस्थं च वैदनाथं महेश्वरम्
अनिंद्यं चाप्यभेद्यं च जरामरणवर्जितम्
अंगुष्ठतर्जनीयोगं कृत्वा हृदयसंगतम्
वेष्टयामास भोगेन निश्चलस्य महात्मनः
श्रीवर्धनइतिख्यातो नानाशास्त्रकृतश्रमः ६.२९.
नातिदूरस्थितं मां च ज्ञात्वा तत्कर्मकारिणम्
स्फुरताधरयुग्मेन बाष्पगद्गदया गिरा
निर्विकल्पेन चित्तेन यदि ध्यातो महेश्वरः ईदृक्कायो भवत्वाशु गुरुर्मे येन धर्षितः
अथाहं सर्पतां प्राप्तस्तत्क्षणादेव दारुणाम्
अथ गत्वा समाधेः स पर्यंतं संयतो मुनिः
अथ सर्पाकृतिं मां च दुःखेन महतान्वितम् तटस्थं भयसंत्रस्तं तथा सर्वजनं तदा
शपता ब्राह्मणं दीनं नैष धर्मस्तपस्विनाम्
समो मानेऽपमाने च समलोष्टाश्मकांचनः
तस्मादजानता वत्स शप्तोऽयं ब्राह्मणस्त्वया ६.२९.
अथ श्रीवर्धनः प्राह प्रणिपत्य निजं गुरुम्
अज्ञानाद्यदिवा ज्ञानान्मया यद्व्याहृतं वचः
न मृषा वचनं प्रोक्तं स्वैरेणापि गुरो मया
पश्चादुदयते सूर्यः शोषं याति महार्णवः
तमुवाच गुरुः शिष्यं स पुनः श्लक्ष्णया गिरा
सदा शिष्यो वयःस्थोपि शासनीयः प्रयत्नतः ॥। किं पुनर्बाल एव त्वं तेन त्वां वच्मि भूरिशः
धर्मं न व्ययते कोऽपि मुनीनां पूर्वसंचितम्
तस्मात्क्षमां पुरस्कृत्य वर्तितव्यं तपस्विभिः
न पापं प्रति पापः स्याद्बुद्धिरेषा सनातनी
दग्धः स दहते भूयो हतमेव निहंति च ६.२९.