नित्यं प्रेषणकर्तॄणां यत्पापं मधुजीविनाम्
अदृष्टदेववक्त्राणां यत्पापं मत्स्यजीविनाम्
विवादे पृच्छमानानां पक्षपातेन जल्पताम्
यत्पापं तु भवेत्तेषां निर्दयानां दुरात्मनाम्
कन्याविक्रयकर्तृणां यत्पापं पापसंगिनाम्
विद्याविक्रयकर्तॄणां यत्पापं समुदाहृतम् ६.२९.
एवं मया प्रतिज्ञाय कोपाविष्टेन सूतज
ततःप्रभृत्यहं भूमौ भ्रमामि लगुडायुधः
मया कोपपरीतेन बहवः पन्नगा हताः
एकदाहं वनं प्राप्तो गहनं लगुडायुधः
ततोऽहं दंडमुद्यम्य कालदंडोपमं रुषा
नापराध्यामि ते किंचिदहं ब्राह्मणसत्तम
ततो मया स संप्रोक्तः कोपात्सलिलपन्नगः मम भार्या प्रिया पूर्वं सर्पेणासीद्विनाशिता
ततोऽहं तेन वैरेण सूदयामि महो रगान् हत्वा दंडप्रहारेण तस्मादिष्टतमं स्मर
ततः स मां पुनः प्राह भयेन महतावृतः
अन्ये ते पन्नगा विप्र ये दशंतीह मानवान् ६.२९.
एवं प्रजल्पमानोऽपि स दंडेन मया हतः
अथासौ लगुडस्पर्शात्तत्क्षणादेव पन्नगः
तदाश्चर्यं समालोक्य ततोऽहं विस्मयान्वितः
को भवान्किमिदं रूपं कृतं सर्पमयं विभो
ततः प्रोवाच मां हृष्टः स नरः प्रश्रयान्वितः
अहमासं पुरा विप्र चमत्कारपुरोत्तमे
कस्यचित्त्वथ कालस्य तत्र यात्रा व्यजायत
अथ तत्र समायाता मुनयः संशितव्रताः
शैवाः पाशुपताश्चैव तथा कापालिकाश्च ये ६.२९.
एकाहारा निराहारा वायुभक्षास्तथापरे
तेऽभिवन्द्य यथान्यायं देवदेवं महेश्वरम्
राजर्षीणां पुराणानां देवेन्द्राणां च हर्षिताः
एवं महोत्सवे तत्र वर्तमाने महोदये
शिवदर्शनविद्वेषी तमसा संवृताशयः